________________
૩૮૦ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) सिद्धानामवगाहना भवतीति। 'किह मरुदेवीत्यादि गाथा (२१७-५), यद्युत्कृष्टतोऽपि पञ्चधनुश्शतमान एव सिध्यति नाधिकमानः तत्कथं मरुदेव्या मानं पञ्चविंशत्यधिकपञ्चधन:शतलक्षणमपपन्नं स्याद आचार्य आह–नाभेः कुलकरात्सकाशाद् येन किञ्चिन्न्यूनासौ ज्ञातव्या, एतदुक्तं भवति-यद्यपि
पञ्चविंशत्यधिकं पञ्च धनुःशतानि नाभेः शरीरप्रमाणं तथा मरुदेव्या अपि "संघयणं संठाणं उच्चत्तं 5 चेव कुलयरेहिं सम" मित्यतिदेशात्तदेव प्राप्नोति तथापि पञ्चधनुःशतमानैवासौ, सूत्रे हि कियन्मात्रेण
हीनाधिकेऽपि लाघवार्थमनेकस्थानेषु दृश्यन्ते एवातिदेशा इति भावः, अथवा भवतु नाभिशरीरप्रमाणा तथापि करिस्कन्धावरूढत्वात्सङ्कचितगात्रा सिद्धेति न यथोक्तावगाहनाविरोध इति माथार्थः । जघन्यावगाहनाया विप्रतिपत्तिमाविष्कुर्वन्नाह पर:-'सत्तूसिएसु'इत्यादि (२१७-७), ननु
प्रज्ञापनादिग्रन्थेषु जघन्यपदेऽपि सप्तहस्तोच्छ्रितस्यैव सिद्धिरुक्ता अतः कथमिह जघन्यतो 10 द्विहस्तशरीरमानस्य मुक्तिरुच्यमाना न विरुध्यते ?, एवं परेणोक्ते पश्चार्द्धनोत्तरमाह-किले 'ति
वृद्धवादसूचायां, एवं किल वृद्धा व्याचक्षते-सा प्रज्ञापनाद्युक्ता सप्तहस्तप्रमाणा जघन्यावगाहना तीर्थकृतामेव द्रष्टव्या, जघन्यपदेऽपि तीर्थकर: सप्तहस्तमान एव सिद्ध्यतीत्येवंविषयैवेतिभावः, तीर्थकरव्यतिरेकेण तु शेषजीवानां सिद्ध्यतां-सिद्धिमासादयतां जघन्यपदे याऽत्रोक्ता
द्विहस्तप्रमाणाऽवगाहना सैव द्रष्टव्येति वाक्यशेष इति गाथार्थः, के पुनस्ते ये. द्विहस्ताः सिद्धा 15 इत्याह-'ते पुणे'त्यादि (२१७-८), ते पुनर्जघन्येन द्विहस्तप्रमाणाः कूर्मपुत्रादयः सिद्धा भवेयुः,
अन्ये पुनरभिदधति-सप्तहस्तप्रमाण एव यो मयूरबन्धादिना संवर्त्य बद्धो यन्त्रे वा निपीड्यमानः सङ्कचितो द्विहस्तीभूतः सन् सिद्धयति तस्यैव जघन्या द्विहस्तप्रमाणावगाहना प्राप्यते न पुनः स्वरूपतोऽपि कश्चिद् द्विहस्तः सिद्ध्यतीति गाथार्थः, किञ्च प्रायोवृत्तिमाश्रित्य जघन्यतः सप्तहस्ता
उत्कृष्टतस्तु पञ्चधनु:शतानि सूत्रे मानमुक्तं इतरथा हीनमप्यधिकं वा कियताऽपि कस्यचित्स्यादेवेत्याह20 'बाहुल्लओ य'इत्यादि (२१८-१), बाहुल्यमाश्रित्य सूत्रे सप्त हस्ता जघन्यं पञ्चधनुःशतानि चोत्कृष्टं
मानमुक्तम्, इतरथा कस्यचिज्जीवस्याङ्गलपृथक्त्वैः कैश्चिज्जघन्यं सप्तहस्तलक्षणं मानं हीनमपि स्याद्, उत्कृष्टमपि पञ्चधनुश्शतलक्षणं मानमभ्यधिकमपि कैश्चिद् धनुःपृथक्त्वैर्भवेदिति यथासङ्ख्यं सम्बन्धः, ततश्च यद्यपि कैश्चिद्धनुःपृथक्त्वैर्मरुदेव्याः शररीमानमभ्यधिकं तथापि न
कश्चिद्दोष इति गाथार्थः, किञ्च-सप्तहस्तमानादधस्तात् पञ्चधनुश्शतेभ्यश्चोपरि वर्तमानस्य 25 यत्कस्यचिज्जीवस्य सिद्धिगमनं तदाश्चर्यप्रायमिति यद्यपि सामान्यमुमुक्षुजीवशरीरमानप्रतिपादके सूत्रे
न निबद्धं तथापि पञ्चशतादेशवचनवत्प्रमाणयितव्यमेव, न हि पञ्चशतान्यादेशानां क्वचित्सूत्रे निबद्धानि न च तानि न प्रमाणमिति, आह च-'अच्छेरयादि'इत्यादि, (२१८-२), गाथा व्याख्यातैव, नवरमाश्चर्यादीत्यादिशब्दात्प्रविरलजीवभावित्वादिपरिग्रहः । 'केनचित् प्रकारेण