________________
३८२ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪)
स स्वयमेवोभ्यूह्यमिति । 'कुट्टिमादौ विचित्राणी 'त्यादि (२२७ - २) श्लोकव्याख्या-कुट्टिमेस्वच्छकान्तिभृन्मणिनिचयखचितभूतले आदिशब्दादादर्शगृहे च सङ्क्रान्तानि विचित्राणि - विशिष्टनानावेषधारीणि विलासवन्त्यत एव लोचनानन्ददायीनि स्वकीयरूपाणि निजशरीराणि दृष्ट्वा द्रष्टव्यकौतुकनिवृत्तेस्तत्रानुत्सुको भवतीति श्लोकार्थः । ' अम्बरे 'त्यादि (२२७-३), अम्बरशब्दे 5 मत्स्यमदोऽभिधीयते स हि किलात्यन्तसुगन्धो भवति, शेषं सुगमम् । 'वस्तुतः सिद्धपर्यायेत्यादि (२२८–५), यद्यपि सिद्धः कृतकृत्य उच्यते बुद्धस्त्ववगततत्त्व इत्यादिकं किञ्चिदभिधेयभेदं बभ्रति वक्ष्यमाणशब्दाः तथापि वस्तुतः - परमार्थतः सिद्धपर्याया एव, एकस्मिन्नर्थे सर्वेषां वृत्तत्वादितिभावः। 'आदिशब्दाद्द्रव्यभूत आचार्य' इत्यादि ( २३०-३), यदा कश्चिल्लोकोत्तरदर्शनप्रपन्नोऽपि विशिष्टधर्म्मकथाद्याचार्यकार्याक्षमो दृश्यते तदैवं व्यपदेशः प्रवर्त्तते - द्रव्यभूतोऽयमाचार्यः, आचार्याभास 10 इत्यर्थ इति । 'अन्ये त्वेवं भेदमकृत्वे 'त्यादि (२३० - ६), अन्ये तु लौकिकलोकोत्तरभेदाद् भावाचार्यो द्विधेत्येवं न भेदं कुर्वते, किन्तु लौकिकः सर्वोऽपि द्रव्याचार्यपक्षेऽन्तर्भवतीत्यभिदधति । ‘योगप्राधान्यख्यापनार्थमिति (२३५ - २), एतदुक्तं भवति - यद्यपि "निव्वाणसाहए जोए" इत्युक्ते सर्व्वभूतसमताऽपि लभ्यते तस्या अपि निर्व्वाणसाधकत्वात् तथापि निर्व्वाणसाधकयोगेषु मध्ये सर्व्वभूतसमतैव प्रधानं तदङ्गमित्येवं प्राधान्यख्यापनार्थं "समा य सव्वभूएंसु इत्यनेन तस्याः 15 पृथगुपादानं कृतमिति । 'इहास्या गाथाया' इत्यादि (२३६ - ८), इहास्या "न संखेवो न वित्थारो " इत्यादिगाथायाः सम्बन्धिना "न संखेवो" इत्यनेन पाठेन सह विरुध्यते, किं तदित्याह - लक्षणं, क्क यदुक्तं लक्षणमित्याह - छन्दोविचितिनाम्नि छन्दः शास्त्र इत्यर्थः कस्माद्विरुध्यत इत्याह— अंशक्रमनियमात्–छन्द:शास्त्रे ह्ययमंशकक्रमनियमो ऽस्ति यदुत गाथायाः प्रथमांश्चतुर्मात्र यथा—‘“नमिऊण जिणवरिंदे" इत्यादिगाथास्वाद्योऽशकञ्चतुर्मात्रो भवति तद्यथा—'नमिऊ' (१20 १ - २) अस्यां तु गाथायामाद्योऽंशकः पञ्चमात्रः प्राप्नोति तद्यथा— नसंखे (१ - २ - २) तस्मादिहैवं पाठो द्रष्टव्यो–नवि संखेवो इत्यादि, एवं च सति संपद्यन्ते चतस्रो मात्रा: प्रथमांशे, तद्यथानविसं (१-१-२) न च वक्तव्यं पूरणार्थं एवायमपिशब्दो न पुनः सार्थको, यदाह-विद्यमानार्थो द्रष्टव्यो, विद्यमानार्थतां च समुच्चयलक्षणामनन्तरमेवास्य व्यवहितसम्बन्धं कृत्वा वृत्तिकार एव यतोऽत्र न संक्षेपो नापि विस्तर इत्यनेन स्वयमेव दर्शयिष्यति, अत्राह - ननु यद्यपीत्थमतिविज्ञतामवलम्ब्य 25 भवद्भिः प्रथमोऽंशः शोधितः तथापीयं गाथा शेषेष्वप्यंशेषु नातीव लक्षणसंवादिनी दृश्यते तथा अन्या अपि गाथा न खल्वार्षीयाः सर्व्वा अपि लक्षणसंवादं बिभ्रति तत्किमनया चर्चया ?, सत्यमेवं मन्यते इह यत्र क्वचिदार्षे लक्षणविसंवादो दृश्यते स सर्वोऽपि वर्त्तमानप्राकृतलक्षणग्रन्थापेक्षया. एव द्रष्टव्यः, चिरन्तनैस्तु लक्षणग्रन्थैः सर्व्वेऽपि संवदत्येव, प्रकृतगाथाप्रथमांशकस्तु तैरपि सह