Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 388
________________ परिशिष्टम् - १ * 3७४ पर्याप्तमात्रजघन्ययोगिसंज्ञिपञ्चेन्द्रियमनोयोगतुल्यं मनोयोगं धरति, ततश्च तस्मादवशिष्यमाणमनोयोगाद् असंख्येयगुणविहीनं प्रतिसमयं निरुन्धानोऽसंख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धि, अवशिष्यमाणमनोयोगात्प्रतिसमयमसंख्येयं २ भागमपनयन्नसंख्येयसमयैः सर्वमपि मनोयोगंनिरुणद्धीत्यर्थः इति गाथाद्वयार्थः । एवं वाग्योगमपि विशिष्टवीर्यविशेषात्पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगतुल्यं प्रथममेव विधृत्य, तथा काययोगमपि प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतुल्यं विधृत्य 5 ततस्तदसङ्ख्येयगुणविहीनं प्रतिसमयं निरुन्धानोऽसंख्येयसमयैः सर्वं वाग्योगं देहित्रिभागं च मुञ्चन् सर्वं काययोगं निरुणद्धि, निरुद्धय च शैलेशी प्रतिपद्यत इति गाथाचतुष्टयतात्पर्यार्थः । अन्ये त्वन्यथापि व्याचक्षते, प्रज्ञापनादिभिर्विसंवादित्वाच्च तन्नेह प्रदर्श्यत इत्यलं प्रसङ्गेनेति । 'तदानन्तर्यवृत्तिरेव प्रतिस्खलन'मित्यादि (२११-१), तस्य-अलोकाकाशस्यानन्तर्येणअव्यवहितत्वेन या वृत्तिः-अवस्थिति: सैवालोकेन सिद्धानां प्रतिस्खलनं न पुनदृष्ट्यादेवि 10 स्तम्भादिना सार्द्ध सम्बन्धे सति प्रतिघातः सम्बन्धस्यैवानुपपत्तेः, तथाहि-एकै कस्य जीवप्रदेशस्यैकैकेनालोकाकाशप्रदेशेन सह सम्बन्धो भवन् सर्वात्मना वा भवेत् देशात्मना वा ?, यदि सर्वात्मनेति पक्षस्तदा जीवप्रदेशस्य सर्वात्मनाऽऽकाशप्रदेशेन सम्बद्धत्वादेकत्वप्रसङ्गः, अथ देशात्मनेति पक्षः, तदा प्रदेशेष्वपि प्रदेशप्रसक्तिः, तदयुक्तं, यदाह-'प्रदेशानां निष्प्रदेशत्वादिति न हि प्रदेशेष्वपि प्रदेशाः सन्ति इत्येवं पक्षद्वयेऽपि सम्बन्धाभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनमित्येवं 15 सभावार्थमिदं व्याख्येयम्, अत एवोक्तं-'सूक्ष्मधिया भावनीय'मिति । 'गंतूण जोअणं जोयणं तु परिहाइ अंगुलपुहुत्त'मिति (२१३-१२), अत्राङ्गलपृथक्त्वं जिज्ञासुना त्रैराशिकमनुसरणीयं, तत्रेयं करणकारिका-"आद्यन्तयोस्त्रिराशावभिन्नजातीप्रमाणमित्सा च । फलमस्य जातिमध्ये तदन्त्यगुणमादिमेन भजेत् ॥१॥" भावना त्वियम्-अत्र सार्द्धद्वाविंशतियोजनलक्षाणि गत्वा यद्यष्टौ योजनानि हीयन्ते तदैकस्मिन् योजने किं परिहीयते ?,स्थापना–२२५००००/८/१ अत्र चान्त्येनैककेन मध्यवर्त्तिनो 20 अष्टौ गुणितास्तावन्त एव भवन्ति एतानि चाष्टौ योजनान्याद्यराशिना विभक्तव्यानि न च भागं प्रयच्छन्ति अतोऽङ्गलानि क्रियन्ते, तत्रैकस्मिन् योजने अष्टषष्टिसहस्राधिकसप्तलक्षाण्य-ङ्गलानां भवन्ति अतोऽष्टसु योजनेष्वयमङ्गलराशिर्भवति ६१४४०००, अस्य राशेः सार्द्धद्वाविंशतिलक्षस्वरूपाद्यराशिना भागेऽपहते किञ्चिन्न्यूनमङ्गलत्रयं लभ्यते तदेव चेहाङ्गलपृथक्त्वशब्देनोक्तं द्रष्टव्यमिति, इदं चेहाविशेषेणोक्तत्वादित्थं व्याख्यायते यावता प्रज्ञापनायां द्वितीयस्थानपदे 25 मध्यभागवर्त्यष्टयोजनेषु हानिनिषिद्धव अतस्तन्मतेन मध्यभागाष्टयोजनवर्जा शेषक्षेत्रस्य हानिर्द्रष्टव्येति। 'पृष्ठतोऽर्द्धावनतादि'रिति (२१५-४),आदिशब्दाद्भून्यस्तपृष्ठस्योत्तानस्य परिग्रहः निषण्णश्चोपविष्ट उच्यते । उत्कृष्टापि पञ्चधनुःशतेभ्यस्त्रिभागे पातिते सति सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रयमानैव

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418