Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
परिशिष्टम् - १ * उ७७ न समीपमायातः केवलं तस्य पश्यतस्तदीयवाटके प्रक्षिप्ता बलीवः, तेन च मित्रेण न सङ्गोपितास्ततो वाटकान्निर्गतास्तस्करैश्चापहृताः, ततोऽसौ अकृतपुण्यस्यैव पार्वे याचितवान्, स तु प्राह-मया तव पश्यत एव मुक्ता इति कोऽत्र मम दोष इति ?, एवं विवादे द्वावपि राजधानी प्रति गन्तुं प्रवृत्तौ, मार्गे चाश्वात्पतितेन केनचिद् अकृतपुण्यः पुमानुक्त:-एनं प्रपलायमानमश्वं व्यावर्त्तय, तथैव तेन कृते मर्माहतोऽश्वो मृतः तेनाप्यसौ गृहीतः, एवं त्रयोऽपि जना राजधान्या 5 बहिस्ताद्वटवृक्षस्याधस्ताद्रात्रावुषिताः, अपरेऽपि लोमन्थिका:-नटास्तत्रैवोषिताः, अकृतपुण्यपुरुषेण चानयोर्यावज्जीवं दासोऽहं भविष्यामीति विचन्त्य वटवृक्षे दण्डीखण्डेनोल्लम्बितं, त्रुटिते च तस्मिन्नधोवर्त्तिनटमहत्तरो निपतता व्यापादितो, अतस्तैरपि नटैः प्रारब्धोऽसौ, ततः सर्वैरपि यथावृत्तव्यतिकरेऽमात्यस्य कथिते तमकृतपुण्यपुरुषं निष्प्रतिभं दीनवदनमनुकम्पास्पदं दृष्ट्वा कृपया सञ्जातत्पक्षपातो निजगाद सचिवो-ददात्येष बलीवर्दान् केवलं यैर्मुच्यमाना वाटके बलीवर्दा 10 दृष्टास्तानि बलीवर्दस्वामिनो नेत्राणि उत्खातयामि, अश्वस्वामिनो यया जिह्वयेदमुक्तं-निवर्तयैनमश्वं तामुत्पाटयामि ततो दास्यत्यश्वमसौ, नटास्त्वभिहिताः, तस्यैव वटवृक्षस्याधस्तादयं शेते भवतां मध्यात्कश्चिदुल्लम्बयतु इत्येवमभिहितास्तं परित्यज्य सर्वे प्रणष्टा इति चूर्ण्यक्षरभावार्थः । 'डोवदृष्टान्तो' (१६५-१), यथा काचित्परिवेशनकी प्रथममेव जानाति एष एतावन्मात्रया दीयमानः सर्वेषामेकस्मिन्माने भविष्यति अतस्तावन्मानं २ डोवैः कृत्वा ददातीत्यर्थः । 'मौक्तिकदृष्टान्तो' (१६५- 15 १), यथा कश्चिन्मौक्तिकानि शूकरवाले प्रोतयंस्तथाऽऽकाशे मौक्तिकमुल्लालयति यथा शूकरवालमुखेन तच्छिद्रं संयुज्यत इति । 'पवउत्ति (१६५-२, प्लवको-नट इतियावत् । तुन्नाक: अभ्यासोत्तरकालं पश्चादतिसूक्ष्माणि तूनयति यथा श्रीमन्महावीरसम्बन्धि वस्त्रं धिग्जातीयेन तुन्नाकसकाशात् तथा तुन्नापितं यथा न केनचिल्लक्षितं, शूच्या च तुन्नाको निरीक्ष्य कश्चित्तावन्मानं दवरकं गृह्णाति यावता विवक्षितवस्त्रच्छिद्रं पूर्यते न हीनाधिकमिति । 'पज्जोओ रायगिह'मित्यादि-(१६८-८), चण्डप्रद्योतो 20 राजा राजगृहमवरुणद्धि तदावासभूमौ च प्रथममेव निधानानि स्वयमेव निक्षेप्याभयकुमारेण पश्चाद्भेदयित्वा तदीयस्कन्धावारनिवेशज्ञायकपुरुषपार्वादाख्यापितं चण्डप्रद्योतस्य-त्वदीयसामन्ताः सर्वेऽपि श्रेणिकेन भेदिताः, अन्यथा शोध्यन्तां तदीयावासभूमयो यदि श्रेणिकप्रयुक्तनिधानानि न लभ्यन्त इति, तद्वचः श्रुत्वा प्रपलानश्चण्डप्रद्योत इत्यभयस्य पारिणामिकी । 'मुहमक्कडियाहित्ति (१७३-१) यासु वचनोक्तिषु करमुत्क्षिप्योत्क्षिप्यासभ्यवाक्यैः परो. धृष्यते ता मुखमर्कटिका- 25 स्ताभिर्वेलबिता-अपमानिता । 'उववासं करेइ'त्ति (१७३-४), स उदितोदयो राजा वैश्रमणाराधनायोपवासं चक्रे, वैश्रमणेनापि तदीयश्रावकत्वपरितोषितमानसेन धर्मरुचिराजः संहृत्य स्वनगरे वाणारसीलक्षणे प्रक्षिप्तः । 'सल्लीवइस्स'त्ति (१८२-४), शल्लकीपतिरिति नन्दस्य बिरुदमिदं।

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418