Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
૩૭૨ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) प्रेषणीयः किमत्र द्वेष्यत्वं ?, इत्येवं तेष्वश्रद्दधानेषु पुनरप्यमात्येन तद्भर्तृद्वयं पूर्वापरदिग्वर्त्तिग्रामयोः प्रस्थाप्य तयोः शरीरकारणवार्तासूचकौ युगपद् द्वौ पुरुषौ तदृहे प्रेषितौ, ताभ्यां च प्रत्येकं तद्भर्तृद्वयशरीरकारणमात्यन्तिकं तस्यै निवेदितं, तया च लोकचित्तानुवृत्त्यर्थमुक्तं यद्यपि द्वयोरपि समानमात्यन्तिकं
शरीरकारणं तथापि एष यः पश्चिमायां दिशि प्रेषितः स मन्दसंहननोऽसमर्थो वेदनानिवहमधिसोढुं 5 अतः स एव प्रतिजागरोचित इति मायावचोविरचनां विधाय तस्यैव समीपं गता, नेतरस्येति,
राज्ञाऽप्यवगतं यदुतास्या अयमेव प्रिय इति भावार्थः । 'सित्थगकरो 'त्ति (१४४-४), मधुसिक्थकर: सर्वप्रकृतिभ्यो राज्ञा याचित इति भावः । 'उब्भामिय'त्ति (१४४-५) कुशीलेत्यर्थः । ‘पडुप्पाइयं'त्ति (१४४-५), उपपतिना सार्द्धं निधुवनसमये उत्तानया स्थितया जाल्या मध्ये भ्रामरं मधु दृष्टमिति
भावार्थः । 'वाउत्तिए'त्ति व्यागुप्तया मधुसिक्स्थादर्शनेन व्याकुलया, अनेन संस्थानेन स्थितां दृष्ट्वा 10 मदुश्चरितमसौ ज्ञास्यतीति विचारशून्ययेत्यर्थः । 'पुरोहिओ निक्खेवए घेत्तूणे'त्यादि (१४५-१),
एकस्मिन्नगरे पुरोहितः प्रतिवसति, तत्समीपे च तीर्थयात्रादिप्रवृत्तलोका निक्षेपकान् मुक्त्वा व्रजन्ति, स चान्येभ्यः प्रत्यागतेभ्यस्तान् समर्पयति, एकेन तु द्रमकेन यन्मुक्तं तन्न प्रयच्छति, स च तदलाभात्पिशाचीभूतस्तं पुरोहितं स्वद्रव्यं याचमानो मार्गे गच्छताऽमात्येन ददृशे, संजातकृपेण
चानेन राज्ञे निवेदितं, अन्यदा च पुरोहितेन नक्तं राज्ञा समं द्यूतक्रीडाप्रवृत्तेन हारिते सति 15 स्वनामाङ्कितमुद्रिका ग्रहणके सारिता, ताञ्च पूर्वसङ्केतितपुरुषो राज्ञः सकाशादृहीत्वा पुरोहितगृहं
ययौ, तन्मुद्रिकासाभिज्ञानेन च तद्भा-याः सकाशाद्रमकगृहीतद्रव्यं समानीय राज्ञः समर्पितवान्, राज्ञा च स द्रमकनिवलकः स्वद्रव्यभृतनिवलकानां मध्ये प्रक्षिप्तः, स च द्रमक आकार्योक्त:अमीषां मध्ये यस्त्वदीयस्तं गृहाण, तेन च प्रत्यभिज्ञाय स्वकीयो गृहीत इत्ययमत्र भावार्थः,
एतदनुसारतश्च चूर्ण्यक्षराणि नेयानि । 'तहेव एगेण निक्खित्तंति (१४६-१), तथैवैकेन पथिकेन 20 कस्यचिद्वणिजः समीपे सहस्रद्रव्यभृतनिवलको न्यासीकृतः तेन च वणिजा स उत्सीवितः
शुद्धद्रम्माः स्वयं गृहीताः स च कूटद्रम्मैर्भूतः, कूटाश्च किल निस्सारत्वात् स्वल्पं देशं रुन्धन्तीत्यधस्तात्कर्त्तयित्वा सङ्कटीकृत्य पुनरपि सीवितः, शुद्धद्रम्मास्तु बहुद्रव्यत्वात्किल प्रभूतदेशे मान्तीति, विवादे सञ्जाते कारणिकैः पुनरपि शुद्धद्रम्माणां सहस्रे तु प्रक्षिप्ते नासौ निवलक: सीवितुं
शक्यते अतो ज्ञातं वणिग्विलसितमिदमिति भावार्थः । अन्ये त्वन्यथापि भावयन्ति, तच्च 25 विस्तरभयानोच्यतेति । 'नाणए तहेव निक्खेवतो'इत्यादि (१४६-३), अत्रापि कस्यचिद्वाणिजः
समीपे शुद्धबहुमूल्यचउल्लकादिद्रम्मस्वरूपनाणकभृतनिवलको न्यासीकृतः, तेन वणिजा ते द्रम्मा बहुमूल्यत्वात्स्वयं गृहीतास्तत्र च निवलके अल्पमूल्याशुद्धपणाभिधं नाणकं प्रक्षिप्तं, स्वामिनि चागते समपितो निवलकः, तेन चोक्तं-नेदं मदीयं नाणकं, त्वया परावर्त्तितमिदमिति, विवादे संजाते

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418