Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 380
________________ परिशिष्टम् - १ * 3७१ स्थानादुच्चाल्य तस्यैव वनखण्डस्य पूर्वदिग्भागे ग्रामं संस्थाप्य राजवचोऽनुष्ठितं । 'क्षीरानं चाग्नि विना संस्करणीय'मित्यादिष्टे उत्कुरुटिकायां रविकिरणतप्तकरीषपलालाधुष्मणा संस्कृतमित्याह'परमन्न'मित्यादि (१३१-२), 'चक्कमज्झभूमीए'त्ति (१३१-५), गन्त्रीचक्रोत्थापितरेखामध्येन स हि किल नोत्पथो नापि मार्गश्च, चक्राक्रान्तरेखाद्वयमध्यस्यैव लोकरूढ्या मार्गत्वादिति भावः। 'पडिक्कमोरूढो 'त्ति (१३१-५-वृ०एडगारूढो), तदारूढो हि किलावनि पादाभ्यां स्पृशति ततश्च 5 न चरणैर्नापि यानेनेत्याराधितं भवति। 'वासदेयभंडाणं विक्कओ जाउ'त्ति (१३५-२), यावद्भाण्डं वर्षेण विक्रीयते तावदेकदिवसेन विक्रीतमिति भावः । ‘उट्टवामि'त्ति (१३५-८), उष्ट्रा इत्यर्थः । 'लक्खाविउ'त्ति (१३७-६-वृ० लक्खाए विलिंपित्ता) वैद्येन स कृकलासो लाक्षारसेनानुलिप्तो येन मदीयोदररक्तानुलिप्तोऽसाविति तस्य भ्रान्तिः समुत्पद्यते । ‘गयघयणगोलखंभे खुड्डगमग्गित्थि पइपुत्ते' इत्यत्र (गाथा ९४०) गयत्ति द्वारमाश्रित्य केचिन्न गजदृष्टान्तं व्याचक्षतेऽपि तु 10 गतगोदृष्टान्तमित्याह–'अन्ने गाविमग्गो सिलाए'त्यादि (१४०-२) अत्र च भावार्थ:तस्करैर्गावोऽपहृतास्तासां च शिलानिचयाकीर्णमार्गेण नीतत्वात्पदं नोपलभ्यते अपरस्य तु कस्यचित् स्वबुद्धिप्रकर्षादुदरावष्टम्भेनावाङ्मुखनिपतितस्योदरे गवां पदानि प्रतिबिम्बतानि तदनुसारेण मार्गमुपलभ्य निवर्त्तितास्तेन गाव इत्यस्यौत्पत्तिकी । 'उवाहणाणं भारेण उवट्ठिउ'त्ति (१४०-५), यदा ह्यसौ भण्डो देव्या निविषयः समाज्ञातस्तत उपानद्ग्रथितमालां वंशप्रान्तेऽवलम्ब्य देव्याः समीपमागतः, 15 पृष्टश्च तया-किमेषोपानन्माला ?, स प्राह-एवम्भूता निरामया तस्य राज्ञो देवी वर्त्तत इत्येवम्भूता त्वत्कीर्त्तिरितः स्थानात् त्वया निष्कासितेन मया बहुषु देशेषु नेतव्या, न चैतावदुपानद्व्यतिरेकेण तावन्तो देशाः पर्यटितुं शक्याः, ततो देव्या चिन्तितं-साम्प्रतं तावदेष एवैतज्जानाति निर्गतस्तु सर्वत्र मां. विडम्बयिष्यति तस्मादिहैव तिष्ठत्वेष इति भीतया तत्रैव धृत इति भावार्थः । 'हत्थो दूरं पसारिउ'त्ति (१४२-२), कारणिकैहि द्वयोरप्यत्यन्तसदृशं रूपं दृष्ट्वा निश्चितं-न 20 व्यन्तरिकामन्तरेणैवम्भूतं सर्वावयवैरविसंवादिरूपं कश्चिन्निवर्तयितुं क्षमो, निसर्गेण हि यत्र द्वयोः सादृश्यं भवति तत्रावश्यं कश्चिदवयवः कथञ्चिद्विसंवादी भवति, नैवमत्र तस्मादनयोरेकयाऽवश्यं व्यन्तरिकया भाव्यं, परं काचिदिति न ज्ञायतेऽतस्तत्परिज्ञानार्थं तैस्तद्भर्त्ता दूरं प्रेषितः, ते च द्वे अप्यभिहिते-तस्य पुनरप्यत्रागतस्य सतो भवत्योर्मध्ये या प्रथममासनं दास्यति तस्या एवासौ भर्तेत्यभिधाय पुनरेवाकारितः, तस्य चागच्छतो व्यन्तरिकयाऽपर्यालोचितकारित्वात् सहसा दिव्यानुभावेन 25 करमतिदूरं प्रसार्यासनं दत्तमतोऽवगतं कारणिकैरेषा व्यन्तरीति भावार्थः । एवं नायं (असद्दहतेसु) पुणोवि पट्टविऊणे'त्यादि (१४३-५), एवं ज्ञातममात्येन योऽनया पूर्वस्यां दिशि प्रेषितः स द्वेष्यो, राजादयस्तु नेदं श्रद्दधति भणन्ति च-अवश्यं द्वयोर्मध्ये एकः कश्चनापि पूर्वस्यामपि

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418