Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 378
________________ परिशिष्टम् - १ विधेयं, नात्मनिन्दादौ प्रवर्त्तितव्यमिति भाव इति श्लोकार्थः । सर्वेऽपि चैते परीषहा: 'ज्ञानावरणवेद्योत्था' इत्यादिना (९४- १), चतुर्षु कर्म्मस्वन्तर्भवन्तीत्युक्तं केवलं विवृण्वता ज्ञानावरणान्तरायवेदनीयान्तर्भाविन एवोक्ता न मोहोदयजन्याः, ते चामी द्रष्टव्याः - ' अरई अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कार पुरक्कारे सम्मत्तं अट्ठ मोहम्म ||१|| ' एते सर्वेऽपि परीषहाः कस्य स्वामिनः कियन्तः सम्भवन्तीति प्रतिपादयन्नाह - ' चतुर्दशैत 'इत्यादि (९४ - ४), स इति 5 संभवोऽभिसम्बध्यते । 'किण्हवन्नएणं ति ( ९५-५), तिलखलेनेत्यर्थः । 'सिरिघरदिट्टंत 'मित्यादि (९६-६), श्रीगृहं—भाण्डागारमुच्यते, तद्द्दृष्टान्तश्चायं - स क्षुल्लको राजानमुवाच - यदि कश्चिद्युष्मद्भाण्डागारं विनाशयति तर्हि भवन्तस्तस्य प्राणनिग्रहादिदण्डं कुर्व्वते न वेति वाच्यं कुर्म एवेति राज्ञो क्षुल्लक आह-यद्येवं मयाऽपि ज्ञानादिरत्नत्रयरूपात्मीय श्रीगृहलुण्टने प्रवृत्तेयं दण्डिता न ममापराध इत्येष श्रीगृहदृष्टान्तः । ‘सो य किल सुसीस इत्यादि (९७-२), स च किल चन्द्रगुप्तश्चाणक्यस्याज्ञाकारी 10 सुशिष्य आसीद्, अत्र च चाणक्येन चिन्तितं - मया तावदसौ जैनधर्मे प्रवर्त्तनीयः, केवलमुपायान्तरेण, अन्यथा मां पक्षपांतिनं निश्चेष्यतीत्यभिहितं - राजन् सर्व्वेऽपि तीर्थिका आकार्य क्रमशोऽन्तःपुरे धर्म्मदेशनं कार्यन्ते, एतद्रूपदर्शनेन सविलासजल्पितादिभिश्च न क्षोभ्यन्ते तेषां विगतरागद्विषां सम्बन्धी धर्म्मस्त्वया कार्य इत्याह- ' अंतेउरधम्मकहण 'मित्यादि । 'उस्सरिउत्ति (९७-४), ओसरिओ-क्षणमेकं स्थित्वा शरीरचिन्तादिव्याजेन यतिक्षोभननिमित्तं पुनरपि निर्गत इति भावः 15 ॥ ‘रायसन्नाय'मित्यादि (९७-५), तेनेर्ष्यालुना राजविदितं नगरे उद्घोषितं - मम गृहे न केनचित्प्रवेष्टव्यं सप्तवृत्तिपरिक्षिप्तं गृहं कारितं । 'उद्देसिइ चेइए' त्यादि (९८- ६), औद्देशिके स्निग्धमधुरादिके चितिते - केनचिद्दत्ते सति तया प्राभृतिकया अजीर्णया सत्या ये शिरोवेदनादयः समुपजायन्ते सामान्यतस्ते आत्मसंवेदनीयोपसर्गाः, साम्प्रतं विशेषत आह- 'ते चउव्विहे 'त्यादि 'सुत्तो थद्धो जाउ'त्ति (९९-२), चरणादिरवयव इति गम्यते । 'अपान्तरालिकं नमस्कारफल 'मित्यादि (१०२ - 20 ९), ननु चापान्तरालिकं स्वग्र्गादिफलमभिधीयते, पातनाक्रमायातगाथायां तु 'जीवं मोएइ भवसहस्साउ' इत्यनेन मोक्षलक्षणं फलमभिधास्यते तत्कथं पातनागाथार्थयोर्न विरोध इति ?, तदयुक्तं, अभिप्रायापरिज्ञानात्, न ह्यत्र स्वर्गादिफलापेक्षयाऽपान्तरालशब्द उक्तः किन्तु 'उप्पत्ती निक्खेवो पयं पयत्थो' इत्यादिमूलद्वारगाथाक्रमेणार्हदादीनां पञ्चानामपि नमस्कारस्य यत्समुदितं पर्यन्ते फलमभिधास्यते तदपेक्षया मोक्षलक्षणमपीदं प्रसङ्गत उच्यमानमपान्तरालिकं विवक्षितमिति न 25 विरोध: । ' धंतंपी 'ति (१०५ - २) अत्यर्थमपि समर्थचित्तेनेत्यर्थः । 'तप्पणईणं' गाहा (१०५३), यस्मादेवं पूर्वोक्तनीत्या स एव शुभचित्तनिबन्धनत्वेनापत्कालाद्युचितः तस्मात् तम्–अनन्तरोक्तं द्वादशाङ्गं श्रुतस्कन्धं प्रणयन्ति - अर्थतः सूत्रतो वा विरचयन्तीति तत्प्रणयिनो, यदिवा तस्य - ૩૬૯

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418