________________
परिशिष्टम् - १ विधेयं, नात्मनिन्दादौ प्रवर्त्तितव्यमिति भाव इति श्लोकार्थः । सर्वेऽपि चैते परीषहा: 'ज्ञानावरणवेद्योत्था' इत्यादिना (९४- १), चतुर्षु कर्म्मस्वन्तर्भवन्तीत्युक्तं केवलं विवृण्वता ज्ञानावरणान्तरायवेदनीयान्तर्भाविन एवोक्ता न मोहोदयजन्याः, ते चामी द्रष्टव्याः - ' अरई अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कार पुरक्कारे सम्मत्तं अट्ठ मोहम्म ||१|| ' एते सर्वेऽपि परीषहाः कस्य स्वामिनः कियन्तः सम्भवन्तीति प्रतिपादयन्नाह - ' चतुर्दशैत 'इत्यादि (९४ - ४), स इति 5 संभवोऽभिसम्बध्यते । 'किण्हवन्नएणं ति ( ९५-५), तिलखलेनेत्यर्थः । 'सिरिघरदिट्टंत 'मित्यादि (९६-६), श्रीगृहं—भाण्डागारमुच्यते, तद्द्दृष्टान्तश्चायं - स क्षुल्लको राजानमुवाच - यदि कश्चिद्युष्मद्भाण्डागारं विनाशयति तर्हि भवन्तस्तस्य प्राणनिग्रहादिदण्डं कुर्व्वते न वेति वाच्यं कुर्म एवेति राज्ञो क्षुल्लक आह-यद्येवं मयाऽपि ज्ञानादिरत्नत्रयरूपात्मीय श्रीगृहलुण्टने प्रवृत्तेयं दण्डिता न ममापराध इत्येष श्रीगृहदृष्टान्तः । ‘सो य किल सुसीस इत्यादि (९७-२), स च किल चन्द्रगुप्तश्चाणक्यस्याज्ञाकारी 10 सुशिष्य आसीद्, अत्र च चाणक्येन चिन्तितं - मया तावदसौ जैनधर्मे प्रवर्त्तनीयः, केवलमुपायान्तरेण, अन्यथा मां पक्षपांतिनं निश्चेष्यतीत्यभिहितं - राजन् सर्व्वेऽपि तीर्थिका आकार्य क्रमशोऽन्तःपुरे धर्म्मदेशनं कार्यन्ते, एतद्रूपदर्शनेन सविलासजल्पितादिभिश्च न क्षोभ्यन्ते तेषां विगतरागद्विषां सम्बन्धी धर्म्मस्त्वया कार्य इत्याह- ' अंतेउरधम्मकहण 'मित्यादि । 'उस्सरिउत्ति (९७-४), ओसरिओ-क्षणमेकं स्थित्वा शरीरचिन्तादिव्याजेन यतिक्षोभननिमित्तं पुनरपि निर्गत इति भावः 15 ॥ ‘रायसन्नाय'मित्यादि (९७-५), तेनेर्ष्यालुना राजविदितं नगरे उद्घोषितं - मम गृहे न केनचित्प्रवेष्टव्यं सप्तवृत्तिपरिक्षिप्तं गृहं कारितं । 'उद्देसिइ चेइए' त्यादि (९८- ६), औद्देशिके स्निग्धमधुरादिके चितिते - केनचिद्दत्ते सति तया प्राभृतिकया अजीर्णया सत्या ये शिरोवेदनादयः समुपजायन्ते सामान्यतस्ते आत्मसंवेदनीयोपसर्गाः, साम्प्रतं विशेषत आह- 'ते चउव्विहे 'त्यादि 'सुत्तो थद्धो जाउ'त्ति (९९-२), चरणादिरवयव इति गम्यते । 'अपान्तरालिकं नमस्कारफल 'मित्यादि (१०२ - 20 ९), ननु चापान्तरालिकं स्वग्र्गादिफलमभिधीयते, पातनाक्रमायातगाथायां तु 'जीवं मोएइ भवसहस्साउ' इत्यनेन मोक्षलक्षणं फलमभिधास्यते तत्कथं पातनागाथार्थयोर्न विरोध इति ?, तदयुक्तं, अभिप्रायापरिज्ञानात्, न ह्यत्र स्वर्गादिफलापेक्षयाऽपान्तरालशब्द उक्तः किन्तु 'उप्पत्ती निक्खेवो पयं पयत्थो' इत्यादिमूलद्वारगाथाक्रमेणार्हदादीनां पञ्चानामपि नमस्कारस्य यत्समुदितं पर्यन्ते फलमभिधास्यते तदपेक्षया मोक्षलक्षणमपीदं प्रसङ्गत उच्यमानमपान्तरालिकं विवक्षितमिति न 25 विरोध: । ' धंतंपी 'ति (१०५ - २) अत्यर्थमपि समर्थचित्तेनेत्यर्थः । 'तप्पणईणं' गाहा (१०५३), यस्मादेवं पूर्वोक्तनीत्या स एव शुभचित्तनिबन्धनत्वेनापत्कालाद्युचितः तस्मात् तम्–अनन्तरोक्तं द्वादशाङ्गं श्रुतस्कन्धं प्रणयन्ति - अर्थतः सूत्रतो वा विरचयन्तीति तत्प्रणयिनो, यदिवा तस्य -
૩૬૯