________________
૩૭૦ ના માલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) प्रस्तुतनमस्कारस्य योग्यास्तत्प्रणयिन उच्यन्ते अर्हदादय एव तेषां शुभेन चेतसा अयमेवाधिकृतनमस्कार: कृतज्ञतां कृतार्थतां चात्मनो मन्यमानेनानुस्मरणीयो-विधेय इति गाथार्थः । 'अर्थत' इति (१०६६), सिद्धशब्दाभियतामात्रेणेत्यर्थः । 'कौंकणा'इत्यादि (१०८-१ कोंकणगदेसे), एकस्मिन्दुगर्गे
निवसन्तः कुङ्कणदेशोद्भवाः पुरुषाः सह्यनाम्नः पर्वताद् गोधूमगुडघृततैलादिभाण्डमवतारयन्त्यारोहयन्ति 5 च । 'कुंदुरुक्कपडिबोहियल्लउ'त्ति (१०८-४), कुक्कुडेन रुतं कुर्खता प्रातन्निद्रां त्याजितः सन्
इति भावः । 'रित्तत्थिक्कस्स'त्ति (१०८-७), रिक्तस्य स्थितस्येत्यर्थः । 'अब्भुट्ठिउत्ति (१०९५), सोऽपि सिद्धकस्तत्रान्तरे संवेगमुपगतः-प्रव्रज्यां जग्राहेत्यर्थः ॥ ‘सो य मूयभावेणे'त्यादि (११०-१), दासीसुतः किल शिल्पविद्याध्ययनं न कार्यते, ततश्च रथकारेण स्वपुत्रेष्वध्याप्यमानेषु
स दासीसुतो मूकत्वेनावतिष्ठते किलाहं न किञ्चित् शृणोमीति, अथ च सर्वां शिल्पविद्यामवधारयतीति 10 भावार्थः । 'किंकम्मय'त्ति (१११-४), किंकर्म गच्छन्तीति किंकर्मगाः, भवन्तः कमधिकारं
कृतवन्त इति पृष्टाः । 'इमेण तं संघाइय'मित्यादि (११३-१), अनेन कोकाशवर्द्धकिना यदर्द्धनिष्पन्नमासीच्चक्रं तत्परिपूर्णं निष्पादितं, कीदृशं च स्वविज्ञानातिशयात् कृतं तदित्याहऊर्वीकृत्य प्रक्षिप्तं सद् याति बहुतरं भूदेशमाक्रामति अग्रे च कुड्यादौ प्रतिघातस्थाने प्रस्खलितं
निवृत्तं सत् न तत्रैव निपतति किन्तु प्रतिमुखं निवर्त्तते यावतो भूभागांत्प्रक्षितं तावन्तं पुनरपि 15 निवृत्तं सदाक्रामतीत्यर्थः, ऊर्ध्वस्थानेन च स्थितं सन्न पतति किन्तु तथैव तिष्ठति, इतरस्य
च तन्नगरवासिनो वर्द्धके: सत्कं यत्नेन घटितं तत्किमित्याह—'जाती'त्यादि (११३-२)सुगमं । 'महाविस्संदा दोन्नित्ति (११६-३), द्वे पाषाणमयकुण्डिके तत्राभूतामित्यर्थः । 'तेसिं कप्पराण'मित्यादि (११६-८), तेषां चाकाशेन गच्छत्पात्राणामग्रतः सित्तवस्त्रपिधानः पतद्ग्रहको
गच्छति तन्मध्यस्थिता च टोप्परिका-कडाहिका कस्यचिदुपासकस्य गृहे गता, सा च सर्वप्रवरे 20 आसने तैरुपासकैः स्थापिता, अन्यथाऽनादरेण दृष्टा सती अगृहीत्वैव भक्तपानादिकं
स्वस्वामिनोऽन्तिकमायाति सातिशयत्वादिति भावः । 'कट्ठविरूढगो'त्ति-(१२१-४), एकस्मिन्काष्ठे समारूढोऽन्यानि समाकर्षति । 'कादाचित्कं वा कर्मे 'त्यादि (१२५-६), यत् किल पीठफलकादिनिर्मापणं तस्मिन्नेव क्षणे प्रारब्धं तस्मिन्नेव निष्पद्यते न पुनः प्रासादादिवन्नित्यं प्रतिदिनं
क्रियते तत्कादाचित्कं कर्माभिधीयते, प्रासादादिनिर्माणं तु बहूनि दिनानि यावन्नित्यव्यापारं 25 शिल्पमुच्यते । 'भरहदारएणं'ति (१२९-४), भरतो-नटस्तत्पुत्रेण । 'अगडे'त्ति (१३१-१), राज्ञा
समादिष्टं-कूप एक: प्रेषणीयो, रोहकेणोक्तं-आरण्यको ग्राम्यकूप एकाकी समागच्छन् बिभेतीति भवद्भिर्नागरिककूपः प्रेष्यो यतस्तेन सममात्मीयं प्रेषयामः । 'वणसंडो'त्ति, तस्य ग्रामस्य पूर्वस्यां दिशि वनखण्ड आसीत्, स च पश्चिमायां दिशि प्रक्षेप्तव्य इति राज्ञा समादिष्टं, रोहकेण तु ततः