________________
૩૬૮
મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪)
अस्पृहो - विगततदभिष्वङ्गः सहेतेति यथासङ्ख्यं सम्बन्ध:, क्व सहेतेत्याह - ' स्त्र्यादिकण्टकवर्जिते ' (९२-२), तत्र वर्ज्जनं वज्जितमभाव इत्यर्थः स्त्र्यादय एव मोक्षपथप्रवृत्तानां विघ्नहेतुत्वेन कण्टका इति कण्टकास्तेषां वज्जितं—अभावस्तस्मिन् सति, एतदुक्तं भवति - प्रथमं स्त्र्यादिकण्टकाभाववत्यपि श्मशानादिस्थाने समाश्रिते यदि पश्चात्कथञ्चिदागन्तुका इष्टा अनिष्टा वोपसर्गाः प्रादुर्भवन्ति तान् 5 सम्यगेवारक्तद्विष्टः सहेतेति श्लोकार्थः । ' शुभाशुभास्वि'त्यादि, मनोज्ञामनोज्ञासु शय्यासु - वसतिषु लब्धासु सतीषु तत्र मनोज्ञायां सुखे समुपस्थिते सति सङ्ग-तत्सुखाभिष्वङ्गं नेयात् न गच्छेत् दुःखे च समुपस्थिते दुःखं सहेत नोद्विजेतेति यथाक्रमं सम्बन्धः, किं पुनश्चेतसा भावयन्निदं कुर्यादित्याह - किं ममानया ( मनोज्ञयाऽ ) मनोज्ञया वा कर्त्तव्यं ?, यतः श्वः- आगामिनि दिने त्याज्या परिहर्त्तव्येयं, साधूनामेकत्रावस्थितेरभावात् कोऽत्र प्रतिबन्धो द्वेषो वेत्येवं मनसा परिभावयेदिति 10 श्लोकार्थः । 'नाक्रुष्ट इत्यादि श्लोकः (९२-४), सुगमो, नवरं 'साम्या'दिति रागद्वेषविरहितः सम उच्यते तस्य भावः साम्यं तस्मात् किमुक्तं भवति ? - परेणाक्रुष्टोऽपि समतामवलम्ब्य स न पुनस्तमाक्रोशेदिति । 'हतः सहेतैवे 'त्यादि (९२ - ५ ), केनचिल्लकुटादिना हतः - ताडितः सन् सहेत न पुनस्तं घ्नन्तं प्रतिहन्यात् कथम्भूतः ? - साम्यमिति पूर्व्ववद्वेत्ति साम्यवित् क्षमैव कर्त्तव्या न परं प्रति क्रोधो मनसाऽपीति, अत्रोपपत्तिद्वारेण भावनामाह - 'जीवानाशात्' यद्यपि लकुटादिना 15 ताडितोऽहं तथापि न ममानेन जीवितनाशः कृतो, यदिवाऽसौ तमपि कुर्यात्को निवारयेत् ?, तस्मान्ममैषोऽपि लाभो यदनेन जीवितनाशो न कृतः, इत्येवं भावना भावनीया, यतीनां शास्त्रविहितत्त्वात्, यदाह— “अक्कोसहणणमारणधम्मब्भंसाण बालसुलहाणं । लाभं मन्नइ धीरो जहोत्तराणं अभावमि ||१||” किञ्च–क्षमायोगाद्गुणाप्तेः भवन्ति हि क्षमावतामिह लोके यशः कीर्त्यादयः परलोके च सुगतिप्राप्त्यादयो गुणाः, 'क्रोधदोषत' इति क्रोधे सति दोषः क्रोधदोषः तस्माच्च क्षमैव कर्त्तव्या, 20 सम्भवन्ति हि क्रोधवतामिहलोकेऽपि प्राणनाशाकीर्त्त्यादयः प्रेत्य च नरकगमनादयो दोषा इति श्लोकार्थः । ‘अजानन् वस्त्वि 'त्यादि (९३-३), यद्यपि विवक्षितं किञ्चिज्जीवाजीवादिवस्तुजिज्ञासुःबोद्धुमिच्छुर्न तत्स्वरूपं जानाति तथापि न मुह्येद्वि (द्वान् ) जन्मापि विफलं मम गर्भेऽपि किं नाहं विलयमुपगत इत्यार्त्तध्यानरूपां विचित्ततां न कुर्यादित्यर्थः, कथम्भूतः ? 'कर्म्मदोषवित् ' यो हि रागद्वेषोपहतैर्जन्तुभिः अन्यजन्मनि यान्युपचितानि ज्ञानावरणादिकर्माणि तद्विलसितमेवेदं 25 नात्रात्मानं विहायापरः कश्चिदपराध्यतीत्येवं कर्म्मदोषं जानाति स कथमार्त्तरूपां विचित्ततामुपगच्छेत् ? प्रत्युत सद्बोधावरणकर्म्मक्षपणाय धर्म्मध्यानमेवानुतिष्ठेद्, अन्येषां च ज्ञानिनां चतुर्दशपूर्व्वधरादीनां सातिशयज्ञानमन्वीक्ष्य ‘तथैवेति' यथा निन्दात्मरूपमोहपरित्यागः पूर्वार्द्ध प्रतिपादितस्तथैव कुर्याद् 'अन्यथा नत्वि'ति परेषु सद्बोधमात्मनि चाज्ञतामवलोक्य न मोहपरित्यागरूपप्रतिपादितोपदेशादन्यथा
4