________________
परिशिष्टम् - १ * 3६७ प्रतीत एव, मायापि परवञ्चनात्मिका स्वार्थलाभमूछितैरेव विधीयते, एवं च स्वगुणोपकारमूर्छात्मकत्वेन कृत्वा प्रीत्यन्तर्गतत्वान्मानमाये लोभस्वरू पे एव, अत्र मानादीनां यः प्रीत्यंशस्तस्य लोभेऽन्तर्भावोऽप्रीत्यंशस्य तु क्रोधे इत्येवमंशकल्पना कृता, ऋजुसूत्र मतेन त्वखण्डरूपा एव मानादयः प्रीतिरूपा लोभे त एवाप्रीतिरूपाः परिपूर्णा एव क्रोधेऽन्तर्भवन्तीति उक्तं न पुनस्तत्रांशकल्पना कृतेति शब्दादीनामृजुसूत्राद्भेदोऽन्यथा वा सुधिया समुत्प्रेक्षणीय इति ॥ 'सो परिखिज्जइ 5 भत्तेण'मित्यादि (५७-१), स हि राजा किलोपोषित-स्तीर्थमिति कृत्वा वासुपूज्यप्रतिमान्तिके प्रव्रज्याग्रहणार्थमुच्चलितोऽतः प्रत्याख्यानभङ्गार्थं भक्तादिना ताभ्यां निमन्त्र्यते । 'तो तं माहणा पहए'त्यादि (६२-२), ततस्तं सुभूमं ते ब्राह्मणाः प्रहारैः प्रहतवन्तः ते च सर्वेऽपि प्रहारा मेघनादाख्यविद्याधरेण तेषामेव ब्राह्मणानामुपरि पात्यन्त इति । 'वट्टखिड्९'ति (६७-८-वड्डखेड्), एकस्मिन् हस्ते गोलकद्वयमेकस्मिन् हस्ते गोलकत्रयं दर्शयित्वा पुनरिन्द्रजालप्रयोगेन केचिद् 10 व्यत्ययेन गोलकान्यत्र दर्शयन्तीन्द्रजालिकाः तद् वट्टखिड्डमुच्यते ।। 'आकारमुक्तिश्चिक्कणिके 'ति (७५-१), मुच्यते असावति मुक्ति:-कर्मणि क्तिप्रत्यय: आकरे मुक्ति:-परित्याज्यं लोहकिट्टमित्यर्थः तद्धि गायेनेव परस्परमतिनिभृततया बद्धं भवतीति तत्रापि लोभशब्दः प्रवर्त्तते, लुभ गाय इति व्युत्पत्तेः। 'पोत्ताइं फालेऊण'त्ति (८०-१०), बहुमूल्यानि मार्गे सभयानीतिकृत्वा जीर्णचीवराणि पाटयित्वा एकैकं खण्डं परिधाय प्रावृत्त्य च निर्गत इति भावः ॥ 'अंचिअं च वट्टइ 'त्ति 15 (८१-८), अंचितं नाम दुर्भिक्षं तदासीदित्यर्थः ॥ 'सद्दवेहिणो यत्ति (८२-८), न केवलं सरजस्का आनीताः ये च शब्दानुसारेण श्रृगालादिजीवं विध्यन्ति ते च दिक्पालाः शब्दवेधिनश्चत्वार आनीता इत्यत्रापि सम्बध्यते । 'मायासवत्तीए य असमंजसाए'इत्यादि (८६-६-तस्स मंजूसाए) मातृसवक्या चास्य निमित्तमिति गम्यते विषं प्रक्षिप्य मञ्जूषा नद्या प्रवाहिता ॥ 'अमाघाउ'त्ति (८७-२) कस्मिंश्चित्पुण्यदिवसे अमारी उद्घोषिता इत्यर्थः । 'अस्य भावार्थ इति (९१-३ ), 20 अस्य तत्त्वार्थभणितसूत्रस्य भावार्थः कारिकाभिरुच्यते, ताश्चेदानीं कारिका यथावैषम्यसम्भवं व्याख्यायन्ते–'सर्वाहारप्रियत्वविदिति (९१-८), सर्वेषां जीवानां आहारप्रियत्वं वेत्ति स तथा यथा हि ममाहार: प्रियस्तथा अन्येषामपि जन्तूनां स एव प्रिय इत्येवं जानन् स्वशरीरगतशोणितपानरूपाहारप्रवृत्ता दंशमशकास्तान्न वारयेदित्यर्थः । 'सङ्गपङ्कसुदुर्बाधा' इति (९१-१०), सङ्ग एव पङ्कः सङ्गपङ्कः सुष्ठ दुःखेन बाध्यते सुदुर्बाधः-सङ्ग पङ्कः सुदुर्बाधो यासां 25 ताः सङ्गपङ्कसुदुर्बाधा दुष्परित्याज्यसङ्गा इत्यर्थः । 'श्मशानादिनिषद्यास्वि' त्यादि(९२-२), श्मशानादिषु समुद्भूतानुपसर्गानेको-रागद्वेषविरहितः क्षमतेति योगः, कथम्भूतान् ?-अनिष्टेष्टान् तत्रानिष्टा व्यन्तरादिकृतादृट्टहासादयस्तान् अभी:-निर्भयः सन् सहेत, इष्टास्तु दिव्याङ्गनाप्रार्थनादयस्तान्