SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ૩૬૬ કમલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) नरकगतिवद्वाच्यमित्येवं शेषेष्वपीन्द्रियादिद्वारेषु सत्पदप्ररूपणा कार्येति गाथाद्वयार्थः। 'अनक्तद्वारत्रये'त्यादि (२८-१४), अयमत्र भावार्थ:- सत्पदप्ररूपणा तावनियुक्तिकृता 'गइ इंदिए अ काए' इत्यादिना पीठिकायां सविस्तरमुक्तेति नेह प्रपञ्चयते, द्रव्यप्रमाणादीनि तु द्वाराणि यद्यपि वृत्तिकृता तत्रैव भावितानि तथापि नियुक्तिकृता न साक्षात्तत्राभिहितानीति पूर्वमनुक्तत्वादिह तानि साक्षआदभिधत्ते, अनन्तरया त्येकयैव गाथया द्वारत्रयं प्रतिपादयिष्यते, अतस्तदनुरोधादेव. द्वारत्रयसङ्ख्याभिधानं, यावता सर्वाण्यपि प्रायो द्रव्यप्रमाणादीनि द्वाराणि पूर्वं साक्षादनुक्तत्वादिहाभिधास्यन्त इति । 'अन्यथा क्षायिके'त्यादि (३०-६), एक इत्यनेनात्मनोऽरुचि दर्शयति, यतो नमस्कारो मतिश्रुतान्तर्गत इत्युक्तं मतिश्रुते क्षायोपशमिकं भावमपहाय न कदाचिद्वर्तेते, श्रेणिकादीनां तु सम्यक्त्वं चारित्रं वा यदि क्षायिकादिभावे वर्त्तते तर्हि 10 क्षायोपशमिकज्ञानान्तर्गतनमस्कारस्य किमायातं ?, तस्मात् क्षयोपशमभावे एव नमस्कारोऽस्य मतेनेत्यवसीयते, ये त्वन्यथाऽपि वर्णयन्ति श्रेणिकादिनां ते तद्भावभावित्वमात्रतया सम्यक्त्व रूपतामप्यध्यवस्यन्ति नमस्कारस्येति अविरोधः।। 'भत्तपाणं च तत्थ विभागउत्ति (३८-१), विभागतः कस्मिंश्चित्प्रदेशे लभ्यते कस्मिंश्चिन्नेत्यर्थः ‘एत्थ अट्ठ वाया वण्णेयव्वा'इत्यादि (४२ ९), इह यासु प्रज्ञापक: प्रश्नं वा शकुनं वा गृहीत्वा निमित्तं किञ्चिदालोचयति ताः प्रज्ञापकापेक्षयाऽष्टौ 15 च दिशोऽष्टौ च विदिशो भवन्ति, तासु यथाक्रमं षोडशैव वातान् निरूपयन्नाह–'पाईणवाए'त्यादि, अत्र च स्थापना सत्तासुओ पू० पूर्व पू० सत्तासुओ वात तुंगारो तुंगारो द० तुंगारो उ० सत्तासुओं 20 उ० वात द० वात प० द० गज्जभो गज्जभो प० गज्जभो प० पीताओ पीताउ पीताउ 25 एतेषु षोडशवातेषु मध्ये यः प्रवहणानां प्रतिकूलो वातः स सर्वोऽपि कालिकावात संज्ञोऽवगन्तव्योऽनुकूलस्तु गज्जभः ॥ 'कलिकलिंडुत्ति (५३-१), कलिकरण्डक इत्यर्थः । 'स्वगुणोपकारमूर्छात्मकत्वादिति (५४-२), स्वे च ते गुणाश्च-जातिसम्पन्नतादयस्तेभ्यो य आत्मप्रतिष्ठाप्राप्त्यादिक उपकार-स्तन्मूर्छात्मकत्वाद्, एतदुक्तं भवति–मानस्तावत्स्वगुणबहुमानात्मकः
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy