________________
परिशिष्टम् - १ * ६५ 'सम्यग्दर्शनसाहचर्याज्ज्ञानस्य, एतदुक्तं भवति–यद्यपि श्रुतरूपत्वान्नमस्कारः श्रुतज्ञानान्तर्गतत्वान्मुख्यतया तंदावरणक्षयोपशममेवापेक्षते तथापि दर्शनज्ञानयोः सहचारित्वाद्दर्शन-मोहक्षयोपशमेनापि साध्यते, अत उक्तं-दर्शनमोहस्य च क्षयोपशमेन साध्यते इति । 'नानाजीवान् (पुनर)ऽधिकृत्ये'त्यादि (२७-६), उक्तमिदं केनाप्यभिसन्धिना गम्भीरवचसा वृत्तिकारेण, परं न सम्यगवगम्यते यतो नानाजीवानाश्रित्यैषा स्थितिः किमुपयोगतो लब्धितो वा ?, तत्र यधुपयोगतस्तर्हि पीठिकायां 5 ज्ञानपञ्चकविचारे मतिश्रुतज्ञानयो नाजीवानाश्रित्योपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तिक एवोक्तो, नमस्कारस्यापि तदन्तर्गतत्वात्तत्कालप्रमाण एव स्याद्, अनेन त्वत्र जघन्यैवैषेत्यन्तर्मुहूर्त्तलक्षणा स्थितिरुक्ता उत्कृष्टतस्तु सर्वकालमिति कथं न विरोध: ?, अथ लब्धितः स्थितिरियमुक्ता तर्हि तस्याः सर्वकालभावित्वाज्जघन्यपदाभिधानमयुक्तं, तस्मादिहैवं द्रष्टव्यं-नानाजीवानाश्रित्योपयोगापेक्षया जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव लब्ध्यपेक्षया तु सर्वकालं स्थितिरिति, यदेनामेव गाथां विवृण्वन्नाह 10 चूर्णिणकारो—'नाणाजीवे पडुच्च उवओगो जहन्नेण उक्कोसेण य अंतोमुहत्तं लद्धीए सव्वद्ध'मिति एवम्भूतेष्वपि च स्पष्टेषु चूर्ण्यक्षरेषु केनाप्यभिप्रायेण वृत्तिकृतेत्थमुक्तमिति न ज्ञायते गम्भीराभिप्रायत्वात्तद्वचसामिति । 'अनेन चार्थान्तरेणे'त्यादि (२७-९), अनेन-नमस्कारस्य पञ्चविधत्वप्रतिपादनेन नम, इति पदस्यार्थान्तरेणार्हदादिना सार्द्धमादौ सम्बन्धः आदिसम्बन्धस्तमाहेतियोगः, कया ? वस्तुस्थित्या-परमार्थेन, तत एतदुक्तं भवति-नम इति नैपातिकमेव 15 पदमिति नास्य स्वरूपेण पञ्चप्रकारताऽस्तीत्येकस्वरूपस्यापि नमःशब्दस्य पञ्चप्रकारत्वं प्रतिपादयति चेत्तर्हि सामर्थ्यादेव निश्चीयते आत्मव्यतिरिक्तार्थान्तरभूतार्हदादि-पदपञ्चकाभिसम्बन्धादेवास्य पञ्चविधत्वमिति । 'संतपयं पडिवन्ने' गाहा 'सम्मत्त' गाहा (२८-९), व्याख्या-मग्गणत्ति अत्रानुस्वारो लुप्तो द्रष्टव्यः क्रिया च स्वयमध्याहार्या, ततश्च नारकादिषु चतसृषु गतिषु शेषेषु चेन्द्रियादिद्वारेषु चरमद्वारपर्यवसानेषु सत्पदं-नमस्कारलक्षणमाश्रित्य मार्गणं-प्ररूपणा कर्त्तव्येत्यर्थः, 20 कानाश्रित्येत्याह-पूर्वप्रतिपन्नान् प्रतिपद्यमानकाँश्च, इयमत्र भावना-नरकगतौ नमस्कारस्य पूर्वप्रतिपन्ना नियमतः सन्ति प्रतिपद्यमानकास्तु भाज्याः, तिर्यग्गतौ पञ्चेन्द्रियेष्वेवमेव, विकलेन्द्रियेषु तु पूर्वप्रतिपन्नाः कदाचिद्भवन्ति न प्रतिपद्यमानकाः, एकेन्द्रियेषु तूभयाभावो, मनुष्यदेवगत्योस्तु
१. यद्यपि वर्तमानेषु बहुषु आदर्शेषु यथाभिप्रेत एव पाठस्तथापि सूरिदृष्टे आदर्श भविष्यति पाठोऽन्यथाविध इति सर्वमेतदुदितं, पाठश्चैवं स्यात्तत्र 'नानाजीवान् पुनरधिकृत्य जघन्यैषैवोत्कृष्टतस्तु सर्वकालमिति' परं तत्रापि 25 चूर्णिकारस्याक्षराण्यनुसृत्य नानाजीवानाश्रित्य जघन्यकाल उपयोगापेक्ष उत्कृष्टकालश्च लब्ध्यपेक्ष इत्यर्थावबोधने न काचित् क्षतिः, नियुक्तिकारेण उपयोगस्यान्तर्मुहूर्त्तकालता प्रत्यपादीति 'एषैवेति वाक्येनानूदिता जघन्या, लब्धेस्तु निवेदिता पृथग्, उपयोगश्चोत्कृष्टतोऽप्यन्तर्मुहूर्त्तमानो नानाजीवानामविवक्षितः प्रसिद्धेरन्यत्र प्राग् बहुश उक्तत्वाद्वा, अत्र नियुक्तिकागा जघन्योत्कृष्टविभागमन्तरैवैकजीवमाश्रित्य स्थितिस्ताऽन्तर्महतलक्षणा ।