________________
૩૬૪
માલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪)
परिशिष्टम् - १ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं, हरिभद्रीयावश्यकवृत्तिटीप्पणकम्
'आरादेसादिवदिति (३-११), आर् आत् एस् इत्येते आदेशा एतेषु च वर्णानां 5 क्रमनिर्देशमात्रं विद्यते न पुनरभिधेयतया कश्चिदर्थः प्रतीयते इत्येवम्भूतं निरर्थकमभिधीयते । 'वाक्छलादी'ति (३-३), अत्रादिशब्दादर्थच्छलपरिग्रहः, अत्र च द्वयेऽप्युदाहरणं विवक्षया नवकम्बल इत्याद्येकमपि भवति, अत्र हि नवः कम्बलो यस्येत्येवं नवकम्बलशब्दयोरेकवचनान्तत्वे नवशब्दस्य नूतनत्वाभिधायित्वे च विवक्षिते नवकम्बलशब्दयोर्बहुवचनान्तत्वकल्पने नवशब्दस्य
सङ्ख्याभिधायित्वे च परिकल्प्यमाने वचनार्थयोरपि छलनोपपद्यते, भेदेन वा किञ्चिदुदाहरणान्तरं 10 स्वधिया वाच्यमिति । 'गोशब्दवदिति (७-८), गोशब्दो हि बहुपर्यायो बह्वर्थ इति तात्पर्यं 'दिशि दृशि वाचि जले भुवि दिवि वज्रेऽशौ पशौ च गोशब्द'' इतिवचनाद्, एवं सूत्रमपि बह्वर्थशब्दयुक्तं विधेयमिति । 'प्रतिमुखमनेकार्थाभिधायकं वा सारवदि'ति (८-५), एतदुक्तं भवति–सारवद्विश्वतोमुखं चेति विशेषणद्वयं स्वतन्त्रतया सूत्रस्य व्याख्यातं, अथवैकमेवेदं
सूत्रविशेषणमित्यनेन प्रतिपादयति, ततश्चेत्थं योजना–विश्वतो मुखं प्रतिमुखं प्रतिसूत्रं अनेकार्थाभिधायकं 15 सत् सारवद्भवतीत्येकमेव विशेषणं, वाशब्दो व्याख्यान्तरसूचकः । 'नियुक्तिस्त्वि'त्यादि (९
४), विचारशब्देनेह चालना गृह्यते । 'धारिणीसहिओ ओलोयण'मित्यादि (१६-३), अत्र भावार्थ:-धारिण्या सहितो राजा अवलोकनं-गवाक्षं गतः, तत्र धारिणी कण्ड्वा गृहीतं भिक्षामटन्तं द्रमकं ददर्श, तं च दृष्ट्वा सानुकम्पा सती नदीसदृशा राजानो भवन्तीति स्वभरिमभिहितवती,
यथा हि नद्यस्तोयपरिपूर्णं समुद्रमेव जलेन पूरयन्ति तथा राजानोऽप्यैश्वर्ययुक्तसामन्तादिभ्यो द्रव्यजातं 20 ददति न पुनरीग्विधरङ्केभ्य इत्युपालब्धवती। 'ताओ भत्तगं नेच्छंति'त्ति (१७-३), भोक्तुं नेच्छन्तीत्यर्थः । 'नोस्कन्धो नोग्राम इति वाक्यशेष' इति (२०-७), नोस्कन्धो नोग्रामः स नैगमाद्यशुद्धनयमतेन जीवो नमस्कार इत्यर्थः ॥ तथा सम्यग्दर्शनसाहचर्यादि'त्यादि (२४-९) न केवलं ज्ञानावरणस्य दर्शनमोहस्य च क्षयोपशमेन साध्यते इति योगो, हेतुमाह
★ प्रथम पाना नं. भने बी २i. पंडित नं. सूयवे छे.