Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 377
________________ ૩૬૮ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) अस्पृहो - विगततदभिष्वङ्गः सहेतेति यथासङ्ख्यं सम्बन्ध:, क्व सहेतेत्याह - ' स्त्र्यादिकण्टकवर्जिते ' (९२-२), तत्र वर्ज्जनं वज्जितमभाव इत्यर्थः स्त्र्यादय एव मोक्षपथप्रवृत्तानां विघ्नहेतुत्वेन कण्टका इति कण्टकास्तेषां वज्जितं—अभावस्तस्मिन् सति, एतदुक्तं भवति - प्रथमं स्त्र्यादिकण्टकाभाववत्यपि श्मशानादिस्थाने समाश्रिते यदि पश्चात्कथञ्चिदागन्तुका इष्टा अनिष्टा वोपसर्गाः प्रादुर्भवन्ति तान् 5 सम्यगेवारक्तद्विष्टः सहेतेति श्लोकार्थः । ' शुभाशुभास्वि'त्यादि, मनोज्ञामनोज्ञासु शय्यासु - वसतिषु लब्धासु सतीषु तत्र मनोज्ञायां सुखे समुपस्थिते सति सङ्ग-तत्सुखाभिष्वङ्गं नेयात् न गच्छेत् दुःखे च समुपस्थिते दुःखं सहेत नोद्विजेतेति यथाक्रमं सम्बन्धः, किं पुनश्चेतसा भावयन्निदं कुर्यादित्याह - किं ममानया ( मनोज्ञयाऽ ) मनोज्ञया वा कर्त्तव्यं ?, यतः श्वः- आगामिनि दिने त्याज्या परिहर्त्तव्येयं, साधूनामेकत्रावस्थितेरभावात् कोऽत्र प्रतिबन्धो द्वेषो वेत्येवं मनसा परिभावयेदिति 10 श्लोकार्थः । 'नाक्रुष्ट इत्यादि श्लोकः (९२-४), सुगमो, नवरं 'साम्या'दिति रागद्वेषविरहितः सम उच्यते तस्य भावः साम्यं तस्मात् किमुक्तं भवति ? - परेणाक्रुष्टोऽपि समतामवलम्ब्य स न पुनस्तमाक्रोशेदिति । 'हतः सहेतैवे 'त्यादि (९२ - ५ ), केनचिल्लकुटादिना हतः - ताडितः सन् सहेत न पुनस्तं घ्नन्तं प्रतिहन्यात् कथम्भूतः ? - साम्यमिति पूर्व्ववद्वेत्ति साम्यवित् क्षमैव कर्त्तव्या न परं प्रति क्रोधो मनसाऽपीति, अत्रोपपत्तिद्वारेण भावनामाह - 'जीवानाशात्' यद्यपि लकुटादिना 15 ताडितोऽहं तथापि न ममानेन जीवितनाशः कृतो, यदिवाऽसौ तमपि कुर्यात्को निवारयेत् ?, तस्मान्ममैषोऽपि लाभो यदनेन जीवितनाशो न कृतः, इत्येवं भावना भावनीया, यतीनां शास्त्रविहितत्त्वात्, यदाह— “अक्कोसहणणमारणधम्मब्भंसाण बालसुलहाणं । लाभं मन्नइ धीरो जहोत्तराणं अभावमि ||१||” किञ्च–क्षमायोगाद्गुणाप्तेः भवन्ति हि क्षमावतामिह लोके यशः कीर्त्यादयः परलोके च सुगतिप्राप्त्यादयो गुणाः, 'क्रोधदोषत' इति क्रोधे सति दोषः क्रोधदोषः तस्माच्च क्षमैव कर्त्तव्या, 20 सम्भवन्ति हि क्रोधवतामिहलोकेऽपि प्राणनाशाकीर्त्त्यादयः प्रेत्य च नरकगमनादयो दोषा इति श्लोकार्थः । ‘अजानन् वस्त्वि 'त्यादि (९३-३), यद्यपि विवक्षितं किञ्चिज्जीवाजीवादिवस्तुजिज्ञासुःबोद्धुमिच्छुर्न तत्स्वरूपं जानाति तथापि न मुह्येद्वि (द्वान् ) जन्मापि विफलं मम गर्भेऽपि किं नाहं विलयमुपगत इत्यार्त्तध्यानरूपां विचित्ततां न कुर्यादित्यर्थः, कथम्भूतः ? 'कर्म्मदोषवित् ' यो हि रागद्वेषोपहतैर्जन्तुभिः अन्यजन्मनि यान्युपचितानि ज्ञानावरणादिकर्माणि तद्विलसितमेवेदं 25 नात्रात्मानं विहायापरः कश्चिदपराध्यतीत्येवं कर्म्मदोषं जानाति स कथमार्त्तरूपां विचित्ततामुपगच्छेत् ? प्रत्युत सद्बोधावरणकर्म्मक्षपणाय धर्म्मध्यानमेवानुतिष्ठेद्, अन्येषां च ज्ञानिनां चतुर्दशपूर्व्वधरादीनां सातिशयज्ञानमन्वीक्ष्य ‘तथैवेति' यथा निन्दात्मरूपमोहपरित्यागः पूर्वार्द्ध प्रतिपादितस्तथैव कुर्याद् 'अन्यथा नत्वि'ति परेषु सद्बोधमात्मनि चाज्ञतामवलोक्य न मोहपरित्यागरूपप्रतिपादितोपदेशादन्यथा 4

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418