Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 376
________________ परिशिष्टम् - १ * 3६७ प्रतीत एव, मायापि परवञ्चनात्मिका स्वार्थलाभमूछितैरेव विधीयते, एवं च स्वगुणोपकारमूर्छात्मकत्वेन कृत्वा प्रीत्यन्तर्गतत्वान्मानमाये लोभस्वरू पे एव, अत्र मानादीनां यः प्रीत्यंशस्तस्य लोभेऽन्तर्भावोऽप्रीत्यंशस्य तु क्रोधे इत्येवमंशकल्पना कृता, ऋजुसूत्र मतेन त्वखण्डरूपा एव मानादयः प्रीतिरूपा लोभे त एवाप्रीतिरूपाः परिपूर्णा एव क्रोधेऽन्तर्भवन्तीति उक्तं न पुनस्तत्रांशकल्पना कृतेति शब्दादीनामृजुसूत्राद्भेदोऽन्यथा वा सुधिया समुत्प्रेक्षणीय इति ॥ 'सो परिखिज्जइ 5 भत्तेण'मित्यादि (५७-१), स हि राजा किलोपोषित-स्तीर्थमिति कृत्वा वासुपूज्यप्रतिमान्तिके प्रव्रज्याग्रहणार्थमुच्चलितोऽतः प्रत्याख्यानभङ्गार्थं भक्तादिना ताभ्यां निमन्त्र्यते । 'तो तं माहणा पहए'त्यादि (६२-२), ततस्तं सुभूमं ते ब्राह्मणाः प्रहारैः प्रहतवन्तः ते च सर्वेऽपि प्रहारा मेघनादाख्यविद्याधरेण तेषामेव ब्राह्मणानामुपरि पात्यन्त इति । 'वट्टखिड्९'ति (६७-८-वड्डखेड्), एकस्मिन् हस्ते गोलकद्वयमेकस्मिन् हस्ते गोलकत्रयं दर्शयित्वा पुनरिन्द्रजालप्रयोगेन केचिद् 10 व्यत्ययेन गोलकान्यत्र दर्शयन्तीन्द्रजालिकाः तद् वट्टखिड्डमुच्यते ।। 'आकारमुक्तिश्चिक्कणिके 'ति (७५-१), मुच्यते असावति मुक्ति:-कर्मणि क्तिप्रत्यय: आकरे मुक्ति:-परित्याज्यं लोहकिट्टमित्यर्थः तद्धि गायेनेव परस्परमतिनिभृततया बद्धं भवतीति तत्रापि लोभशब्दः प्रवर्त्तते, लुभ गाय इति व्युत्पत्तेः। 'पोत्ताइं फालेऊण'त्ति (८०-१०), बहुमूल्यानि मार्गे सभयानीतिकृत्वा जीर्णचीवराणि पाटयित्वा एकैकं खण्डं परिधाय प्रावृत्त्य च निर्गत इति भावः ॥ 'अंचिअं च वट्टइ 'त्ति 15 (८१-८), अंचितं नाम दुर्भिक्षं तदासीदित्यर्थः ॥ 'सद्दवेहिणो यत्ति (८२-८), न केवलं सरजस्का आनीताः ये च शब्दानुसारेण श्रृगालादिजीवं विध्यन्ति ते च दिक्पालाः शब्दवेधिनश्चत्वार आनीता इत्यत्रापि सम्बध्यते । 'मायासवत्तीए य असमंजसाए'इत्यादि (८६-६-तस्स मंजूसाए) मातृसवक्या चास्य निमित्तमिति गम्यते विषं प्रक्षिप्य मञ्जूषा नद्या प्रवाहिता ॥ 'अमाघाउ'त्ति (८७-२) कस्मिंश्चित्पुण्यदिवसे अमारी उद्घोषिता इत्यर्थः । 'अस्य भावार्थ इति (९१-३ ), 20 अस्य तत्त्वार्थभणितसूत्रस्य भावार्थः कारिकाभिरुच्यते, ताश्चेदानीं कारिका यथावैषम्यसम्भवं व्याख्यायन्ते–'सर्वाहारप्रियत्वविदिति (९१-८), सर्वेषां जीवानां आहारप्रियत्वं वेत्ति स तथा यथा हि ममाहार: प्रियस्तथा अन्येषामपि जन्तूनां स एव प्रिय इत्येवं जानन् स्वशरीरगतशोणितपानरूपाहारप्रवृत्ता दंशमशकास्तान्न वारयेदित्यर्थः । 'सङ्गपङ्कसुदुर्बाधा' इति (९१-१०), सङ्ग एव पङ्कः सङ्गपङ्कः सुष्ठ दुःखेन बाध्यते सुदुर्बाधः-सङ्ग पङ्कः सुदुर्बाधो यासां 25 ताः सङ्गपङ्कसुदुर्बाधा दुष्परित्याज्यसङ्गा इत्यर्थः । 'श्मशानादिनिषद्यास्वि' त्यादि(९२-२), श्मशानादिषु समुद्भूतानुपसर्गानेको-रागद्वेषविरहितः क्षमतेति योगः, कथम्भूतान् ?-अनिष्टेष्टान् तत्रानिष्टा व्यन्तरादिकृतादृट्टहासादयस्तान् अभी:-निर्भयः सन् सहेत, इष्टास्तु दिव्याङ्गनाप्रार्थनादयस्तान्

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418