SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ૩૭૨ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) प्रेषणीयः किमत्र द्वेष्यत्वं ?, इत्येवं तेष्वश्रद्दधानेषु पुनरप्यमात्येन तद्भर्तृद्वयं पूर्वापरदिग्वर्त्तिग्रामयोः प्रस्थाप्य तयोः शरीरकारणवार्तासूचकौ युगपद् द्वौ पुरुषौ तदृहे प्रेषितौ, ताभ्यां च प्रत्येकं तद्भर्तृद्वयशरीरकारणमात्यन्तिकं तस्यै निवेदितं, तया च लोकचित्तानुवृत्त्यर्थमुक्तं यद्यपि द्वयोरपि समानमात्यन्तिकं शरीरकारणं तथापि एष यः पश्चिमायां दिशि प्रेषितः स मन्दसंहननोऽसमर्थो वेदनानिवहमधिसोढुं 5 अतः स एव प्रतिजागरोचित इति मायावचोविरचनां विधाय तस्यैव समीपं गता, नेतरस्येति, राज्ञाऽप्यवगतं यदुतास्या अयमेव प्रिय इति भावार्थः । 'सित्थगकरो 'त्ति (१४४-४), मधुसिक्थकर: सर्वप्रकृतिभ्यो राज्ञा याचित इति भावः । 'उब्भामिय'त्ति (१४४-५) कुशीलेत्यर्थः । ‘पडुप्पाइयं'त्ति (१४४-५), उपपतिना सार्द्धं निधुवनसमये उत्तानया स्थितया जाल्या मध्ये भ्रामरं मधु दृष्टमिति भावार्थः । 'वाउत्तिए'त्ति व्यागुप्तया मधुसिक्स्थादर्शनेन व्याकुलया, अनेन संस्थानेन स्थितां दृष्ट्वा 10 मदुश्चरितमसौ ज्ञास्यतीति विचारशून्ययेत्यर्थः । 'पुरोहिओ निक्खेवए घेत्तूणे'त्यादि (१४५-१), एकस्मिन्नगरे पुरोहितः प्रतिवसति, तत्समीपे च तीर्थयात्रादिप्रवृत्तलोका निक्षेपकान् मुक्त्वा व्रजन्ति, स चान्येभ्यः प्रत्यागतेभ्यस्तान् समर्पयति, एकेन तु द्रमकेन यन्मुक्तं तन्न प्रयच्छति, स च तदलाभात्पिशाचीभूतस्तं पुरोहितं स्वद्रव्यं याचमानो मार्गे गच्छताऽमात्येन ददृशे, संजातकृपेण चानेन राज्ञे निवेदितं, अन्यदा च पुरोहितेन नक्तं राज्ञा समं द्यूतक्रीडाप्रवृत्तेन हारिते सति 15 स्वनामाङ्कितमुद्रिका ग्रहणके सारिता, ताञ्च पूर्वसङ्केतितपुरुषो राज्ञः सकाशादृहीत्वा पुरोहितगृहं ययौ, तन्मुद्रिकासाभिज्ञानेन च तद्भा-याः सकाशाद्रमकगृहीतद्रव्यं समानीय राज्ञः समर्पितवान्, राज्ञा च स द्रमकनिवलकः स्वद्रव्यभृतनिवलकानां मध्ये प्रक्षिप्तः, स च द्रमक आकार्योक्त:अमीषां मध्ये यस्त्वदीयस्तं गृहाण, तेन च प्रत्यभिज्ञाय स्वकीयो गृहीत इत्ययमत्र भावार्थः, एतदनुसारतश्च चूर्ण्यक्षराणि नेयानि । 'तहेव एगेण निक्खित्तंति (१४६-१), तथैवैकेन पथिकेन 20 कस्यचिद्वणिजः समीपे सहस्रद्रव्यभृतनिवलको न्यासीकृतः तेन च वणिजा स उत्सीवितः शुद्धद्रम्माः स्वयं गृहीताः स च कूटद्रम्मैर्भूतः, कूटाश्च किल निस्सारत्वात् स्वल्पं देशं रुन्धन्तीत्यधस्तात्कर्त्तयित्वा सङ्कटीकृत्य पुनरपि सीवितः, शुद्धद्रम्मास्तु बहुद्रव्यत्वात्किल प्रभूतदेशे मान्तीति, विवादे सञ्जाते कारणिकैः पुनरपि शुद्धद्रम्माणां सहस्रे तु प्रक्षिप्ते नासौ निवलक: सीवितुं शक्यते अतो ज्ञातं वणिग्विलसितमिदमिति भावार्थः । अन्ये त्वन्यथापि भावयन्ति, तच्च 25 विस्तरभयानोच्यतेति । 'नाणए तहेव निक्खेवतो'इत्यादि (१४६-३), अत्रापि कस्यचिद्वाणिजः समीपे शुद्धबहुमूल्यचउल्लकादिद्रम्मस्वरूपनाणकभृतनिवलको न्यासीकृतः, तेन वणिजा ते द्रम्मा बहुमूल्यत्वात्स्वयं गृहीतास्तत्र च निवलके अल्पमूल्याशुद्धपणाभिधं नाणकं प्रक्षिप्तं, स्वामिनि चागते समपितो निवलकः, तेन चोक्तं-नेदं मदीयं नाणकं, त्वया परावर्त्तितमिदमिति, विवादे संजाते
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy