________________
परिशिष्टम् - १ * 393 कारणिकैरुक्तं-भो पथिक! कस्मिन् संवत्सरे त्वया इदं अस्य समर्पितं ?, कथितश्चानेन संवत्सरः, ततः कारणिकैर्वणिग् निर्भसितस्तस्मिन्काले पणानां निष्पत्तिरेव नासीद् आधुनिकत्वादमीषां, तदाऽविद्यमानास्तवानेनैते कथं समपिताः ?, तस्माद्यदस्य सत्कं नाणकं तत्समर्पय, समपितं च तत् वणिजा, दण्डितश्च राज्ञेति भावार्थः एतदनुसारतश्चूर्ण्यक्षराणि नेयानि । 'अन्नेवि भिक्खइंतगा' इत्यादि (१४७-३), यदा हि तेन भिक्षुणा तस्मै निक्षेपकः समपितः तदा द्यूतकारैरुक्तम्-अन्येऽपि 5 भिक्षवोऽस्माभिः सह समायातास्तिष्ठन्ति ततस्तेऽप्यस्यां युष्मन्मञ्जूषायां सर्वं सुवर्णं स्थापयिष्यन्त्यतस्तानप्याकारयाम इति व्याजेनोत्थाय सर्वे निष्क्रान्ता इति भावार्थः । 'पिइमिस्सय'त्ति(१४८-६), मातापित्रोः पूज्यवचनमिदं मातापित्रादय इत्यर्थः। 'वड्डिपउत्तं न उग्गमइ 'त्ति (१४९-७), भर्तारमन्तरेण कलान्तरदत्तं द्रव्यं न लभत इत्यर्थः। 'परिभट्ठउत्ति (१५०३) परिव्राजकः । 'तज्जाएण य तज्जायं सिलोगो'त्ति (१५२-९), "तज्जाएण य तज्जायं, 10 तन्निभेण य तन्निभं । तारुवेण य तारुवं, सरिसे सरियं विणिदिसे ॥१॥" इत्येवं चूडामणिपठितश्लोकोऽयं द्रष्टव्यः । 'बीओ आपुच्छइ-सब्भाव'मित्यादि (१५३-२), द्वितीयो येन न सम्यगवगतं स उपाध्यायं पृष्टवान्-ममानेन सार्द्धं सममेवाधीयानस्य न शास्त्रसद्भावमावेदयसि त्वं, अस्य तु सम्यक्कथयसीति तं सकोपाभिसन्धिमालोक्योपाध्यायस्तौ पप्रच्छ-कुतो व्यतिकरादिदमभिधीयते ?, ताभ्यां सर्वं यथावृत्तमावेदितमुपध्यायाय, तत्रैकः प्राह-मया घटस्य विपत्तिमालोक्य "तज्जाएण 15 य तज्जाय" मित्यादि पर्यालोचयता वृद्धासुतस्य मरणमादिष्टं, अपरस्त्वाह-ममेत्थमवगतं, घटस्तावदयं भूविकारो भग्नः सन् भुव एव मिलितः एवं सोऽपि वृद्धासुतस्तदुद्भवत्वात्तस्या एव मिलिष्यति, यदुक्तं-"तज्जाएण य तज्जाय" मित्यादि, गुरुणा च स मन्दप्रज्ञः शिष्य उक्त:-तज्जाएणेत्यादिश्लोको द्वयोरपि मयैकरूपतया व्याख्यातः, स्वप्रज्ञादोषात्तु न तव सम्यक् परिणत इति कोऽत्र मम दोष इति । 'अत्थसंत्थे-कप्पओ दहिकुंडउच्छुकलावस्से'त्यादि (१५३-५), अर्थशास्त्रं-नीतिशास्त्रं 20 तत्प्रावीण्ये कल्पको दृष्टान्तः, कथानकं चेदमुपरिष्टाद्योगसङ्ग्रहेषु न्यक्षेण वक्ष्यते, स्थानाशून्यार्थं च लेशतः किञ्चिदुच्यते-पाटलीपुत्रनगरे नन्दाभिधानेन राज्ञा कल्पकाभिधानो निजामात्यः कस्मिंश्चिदपराधे सकुटुम्बोऽन्धकूपे प्रक्षिप्तः, तद्भोजनार्थं च कोद्रवकूरभृतशरावकं पानीयं च किञ्चित्प्रक्षिप्यते, तच्चाल्पमिति वैरनिर्यातनार्थं जिजीविषुः कल्पक एवैको भुक्ते न शेषाणीति कल्पकवर्ज साण्यपि मृतानि, नन्दश्च कल्पकबुद्धिबलेनैव राज्यमकरोद्, अतस्तमन्धकूपे क्षिप्तं मत्वा 25 समस्तप्रतिपक्षराजवर्गेण पाटलीपुत्रे वेष्टिते नन्दः कल्पकं स्मृतवान्, कथितं च तत्पुरुषैः-देव! तत्र कूपे प्रक्षिप्तं भक्तमद्यापि कश्चिदृह्णाति, ततः कूपादाकृष्य कल्पकः सप्रणयं राज्ञाऽभ्यर्थितोन भवबुद्धिमन्तरेणापदियं निस्तीर्यते तस्मात् कुरुष्व किञ्चिदुपायं, अत: कल्पकेनात्मीयपुरुषान्