________________
૩૭૪ છે મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) प्रेष्य नदीपरतटावासितसमस्तप्रतिपक्षराजवर्गस्याख्यापितं-अर्वाग्भागान्नावमारुह्याहमागमिष्यामि परतस्त्वात्मीयमन्त्रिणः प्रेषणीया येन नदीमध्ये सन्धानमुच्यते, समायातास्तथैव, कल्पकेनोक्तंइक्षुकलापकस्य मुष्टिबद्धस्याधस्तादुपरि च छिन्नस्य मध्ये किं भवति ? कुण्डे प्रक्षिप्तदध्नो
वाऽधउपरिच्छिन्नस्य मध्ये किं भवति ?, इत्येवमसम्बद्धं जल्पं किञ्चिद्विधाय प्रतिनिवृत्तः, तैश्च 5 मन्त्रिभिर्गत्वाऽऽत्मीयस्वामिभ्यो निवेदितं, ते च राजानश्चिन्तयन्ति-नेत्थमसम्बद्धं कल्पको जल्पति कदाचिदपि, परमस्मदीया मन्त्रिणस्सर्वेऽपि तेन भेदिताः, सम्भवति हि सर्वं तत्पावें सकलबुद्धिसम्पन्नत्वाद्, यदिवाऽसौ जीवतीत्यस्माभिर्जातमभविष्यत् तदा विग्रहमपि नन्देन समं न कश्चिदकरिष्यत्, तस्मादिदानीमप्यपसरणमेव श्रेय इत्येवं विमृश्य सर्वे प्रनष्टाः, इत्येवं कल्पकस्य
नीतिशास्त्रे प्रावीण्यमिति । 'लेहे जहा अट्ठारसे' त्यादि (१५४-१), यः किल लाटकर्णाट10 द्रविडदेशजादिलिपीनामष्टादशकमपि वेत्ति तस्य वैनयिकी, अथवा कश्चिदुपाध्यायो राजपुत्रान्
पाठयति, ते च दुर्ललितत्वाल्लाक्षागोलकैः क्रीडन्ति न पुनरधीयते, अत उपाध्यायेन स्वबुद्धिप्रकर्षात्तथैव क्रीडन्तोऽप्यमी यथा २ अक्षराण्येकद्विव्याद्यङ्काश्च निष्पाद्यन्ते तथा २ भूमौ गोलकप्रक्षेपं कारयित्वा समस्तलिपीगणितञ्च ग्राहिता: न च क्रीडारसस्तेषां निरुद्ध इत्युपाध्यायस्य वैनयिकी। 'खायजाणएणं
भणिय'मिमादि (१५४-२), खातं-कूपवाप्यादि तत्स्वरूपज्ञायकेन केनचिन्नैमित्तिकेन केषाञ्चित्कूप15 खननप्रवृत्तपुरुषाणां कथितम्, एतावद्दूरमवनौ खातायामत्र जलमुन्मीलयिष्यति, तैस्तावत्समधिकं
खातं तथापि जलं न प्रादुरस्ति, ततौ नैमित्तिकाय तैराख्यातं-अतिक्रान्तं भवत्कथितं स्थानं तथापि न पानीयमुन्मीलति, नैमित्तिकेन प्रत्यवाचि-यस्मिन्नेव प्रदेशे मया कथितं तस्मिन्नेव जलं केवलं तत्रैवैकस्मिन्पार्वे कूपतटं ताडयत यूयं थासकेन–कुद्दालकेनेत्यर्थः, तथैव तैरनुष्ठितम्, उद्भूतं च
तोयमिति नैमित्तिकस्य वैनयिकीत्येवं चूर्ण्यक्षराणि मन्तव्यानीति । 'अणेगआसावहो 'त्ति (१५५20 १) अनेकानश्वानावहतीत्यनेकाश्वावहः, तेन गृहे तिष्ठतोऽन्येऽप्यश्वा बहवो भवन्तीत्यर्थः । गर्दभोदाहरणे
कश्चिद्राजा तरुणवयस एव पुरुषान् स्वसन्निधौ धारयति न वृद्धान्, अन्यदा च ससैन्यः कमपि शत्रुमनुधावितोऽसौ, अरण्ये च तोयमन्तरेण बाध्यमानायां सेनायामबहुदृष्टत्वेन तरुणपुरुषेषु जलस्थानान्यजानानेषु किमत्र कटके अस्ति कश्चिदृद्धो यो जलाशयान् जानीत इत्येवं राज्ञा पृष्टं,
तत्र चैकेन पदातिना पितृभक्तेन राज्ञः प्रच्छन्नं स्वपिता वृद्ध आनीत आसीत्, तेन च पृष्टेन 25 सता राज्ञः कथितं यत्र किल खरश्चरणाघातान्प्रयच्छन् सादरं भूमिमाजिघ्रति तत्र स्वल्पेऽपि खाते
जलमवाप्यते इति वृद्धश्रुतिः, तथैव च खानिते तस्य राज्ञस्तोयशिरादर्शनमभूद्, अन्ये त्वाचक्षतेयेन मार्गेण तोयगन्धमाजिघ्रन्तो रासभा जग्मुस्तन्मार्गमाश्रित्य नीतं समस्तमपि सैन्यं तेन वृद्धेन दृष्टश्च जलाशय इति, वृद्धस्य वैनयिकीत्येवं चूर्ण्यक्षराण्युन्नेयानि । 'लक्षणोदाहरणं' (१५५