________________
- १
परिशिष्टम् ४ - लक्खणे वृ०), पारसविषये कस्यचिदृहे प्रभूतास्तुरङ्गमाः, तेन चाश्वस्वामिना एतावदश्वसमूहमध्ये -स्वेच्छयाऽश्वद्वयं त्वया भृतौ वर्षान्ते ग्राह्यमित्युक्त्वा कश्चिदश्वरक्षको धृतः, तस्य च तद्दुहित्रा सार्द्धं सङ्गतिरभूद्, वृत्तिकाले च समायाते अश्वरक्षकेन सा तद्दुहिता पृष्टा - अमीषां मध्ये कथय किमपि लक्षणयुक्तमश्वद्वयं येन तद्गृह्णामि, तयाऽभिहितोऽसौ - सर्वेष्वश्वेषु अरण्ये विश्रब्धमुपविष्टेषु घोलचर्म्म:चर्ममयाधारविशेषः स पाषाणखण्डानां भृत्वा उपरिष्टाद्वृक्षशाखातो मोक्तव्यः तथा पटहस्तदग्रतो 5 वादनीयः इत्येवं कृते यौ न समुत्त्रस्यतस्तथा खुक्खुरकेण - चर्म्ममयेन पाषाणखण्डभृतेन पृष्ठतो वाद्यमानेन सर्वानपि वाहय यौ शेषाश्ववाहनिकातोऽधिकं निर्वहतः तौ द्वावपि गृहाण, तेन सर्वं तथैव कृत्वा वेतनकाले - मूल्यकाले अश्वस्वामी याचितो - ममामुकममुकं चाश्वं देहि, तुरङ्गमस्वामी तु समस्तलक्षणयुक्तौ तावतीकृत्वाऽऽह - एतद्वज्र्जं शेषान् सर्व्वानपि गृहाण किमेताभ्यां करिष्यसि ?, स तु तद्वज्र्जं नापरं कमप्यश्वमिच्छति, ततश्चाश्वस्वामिना स्वभार्योक्ता - प्रदीयतामस्मै स्वपुत्रिकायेन 10 गृहजामातृत्वं प्रतिपन्नो नाश्वौ गृहीत्वाऽन्यत्र व्रजति, सा च हीनोऽसाविति नेच्छत्यमुमर्थं, ततोऽश्वस्वामी भार्याऽवबोधाय वर्द्धकिसुतं दृष्टान्तीकरोति, किमर्थमाश्रित्येति चेद् उच्यते - लक्षणयुक्तेन स्वगृहे धृतेन कुटुम्बं धनकनकादिना वर्द्धत इति, साम्प्रतं स एव दृष्टान्तो भाव्यते - एकस्य कस्यचिद् भागिनेयस्य मातुलकेन वर्द्धकिना स्वदुहिता परिणेतुं दत्ता, गृहजामाता च कृतः, कर्म्मान्तरं त्वसौ न किञ्चित्करोति, अतो वर्द्धकिदुहित्रा प्रेरितः किमिति पुरुषव्रतरहितं परदत्तमुपजीवंस्तिष्ठसि ? 15 विधेहि किञ्चित्कर्मान्तरमिति, कुठारं गृहीत्वा काष्ठकर्त्तनार्थमटवीं गतः, स्वाभिलषितकाष्ठप्राप्त्यभावाच्च प्रतिदिवसं रिक्त एव निवर्त्तते षष्ठे च मासे लब्धं कृष्णचित्रककाष्ठं, तत्र च कुलक:कलशिकाचतुर्थांशरूपो धान्यमापकविशेषो घटितः, तद्विक्रयार्थं च द्रव्यस्य लक्षण देय इत्युक्त्वा स्वभार्याऽऽपणपथे प्रेषिता, सा च तन्मूल्ये लक्षं याचमाना लोकैरुपहस्यते, अपरस्तु बुद्धिमान् वणिक्कश्चित् कारणेनेह भवितव्यमिति विमृश्य यावत्तेन धान्यं मिमीते तावन्न कथञ्चित्क्षीयते अतो 20 धान्याद्यक्षयनिमित्तं लक्षमपि दत्त्वा तेन गृहीतः, ततः प्रभृति तेन सलक्षणजामातृकेन गृहे धृतेन सर्व्वमपि वर्द्धकिकुटुम्बं धनधान्यादिना वृद्धिमुपययौ, तथा त्वमपि निजदुहितरं यद्यस्मै प्रयच्छसि तदाऽनेनास्मदृहे तिष्ठता समस्तलक्षणोपेतमश्वद्वयमपि तिष्ठति, तदश्वद्वयमाहात्म्येन च सर्व्वाः सम्पदः करस्था एव भवन्ति अस्माकमित्यादि बहुविधमुक्त्वा दापिता तस्मै दुहितेत्यत्र अश्वाधिपतेर्वैनयिकीत्येवं सभावार्था चूर्ण्यक्षरगमनिका । 'तेणसीवणीए 'त्ति (१५७-६) तस्करसीवनिकया नष्टसीवन्येतियावत्। 25 किमिति तेन वैद्येन स्तोकं विषमानीतमित्याशङ्क्याह - 'जं किं बहुणे 'त्यादि (१५८-४), यद्यस्मात्कारणात् किं निस्सारेण वस्तुना विषेणान्येन वा बहुनाऽपि क्रियते ? प्रतिपक्षदर्शनेनापि निस्सारेण किं बहुना ? अपि तु प्रतिपक्षोऽपि सार एव प्रदर्शनीयः स्वल्पोऽपि, यथा तेन वैद्येन
૩૭૫