Book Title: Ashruvina
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 11
________________ प्रस्तुतस्य खलु काव्यस्याधिकृतं कथावस्तु जैनागमेभ्यःकवयित्रा समग्राहि । तस्य खलु वर्णनं स्वयं कविनैव पृथगुपन्यस्तम् । तत एव सर्वं समाकलनीयम्। अतस्तत्र न व्यापार्यते लेखनी। केवलं समासेनेदं प्रस्तूयते मयका । महतां खलु समुदाचारो न लौकिकेन मानदण्डेन विचारणीयो भवति। तत्र पर्यनुयोगस्य नियोगस्य वा सर्वथाऽनवसरः। अतः खलु कथमन्तिमतीर्थङ्कराणां श्रीमहावीरस्वामिनामीदृशोऽभिग्रह: समजनीति न पृष्टव्यम् । फलं त्वस्माभिरत्र समीक्ष्यते-राजपुत्री चन्दनबाला बन्दीग्राहं गृहीतात्यन्तिकी दुर्दशां समासादिता समुद्धरणीयासीत् । सत्यपि दैवस्य प्रातिकूल्ये दुःखदुर्दिनेन समाच्छन्नेऽन्तरिन्द्रिये श्रद्धाबीजमच्छिन्नमूलं व्यराजत तस्याः।अतःखलु महावीरस्वामिनां प्रसादस्तया समप्रापि।अभिग्रहस्य यान्यपेक्षितानि लक्षणानि, तानि सर्वाणि तस्यामुपलब्धानि केवलमश्रुपूर्ण विलोचनं विहाय । भिक्षार्थं तस्याः समीपमुपनते महावीरस्वामिनि सा खलु सहजया श्रद्धया महापुरुषभक्त्या चावर्जितहृदया हर्षस्य काष्ठामन्वभवत्। अश्रूणि विलीनानि। अतः खलु प्रत्यावृत्ते पुरुषोत्तमे नितरां शोकेन परिदूयमानचित्ताऽश्रुणां प्रवाहं स्वत प्रसरद्रूपमवरोद्धं नालमभूत् । अश्रुप्रवाहमेव दूतं कृत्वा परचित्तज्ञानिनं महावीरस्वामिनं प्रति सन्देशं प्रेषितवती। तस्याः खलु सहजं प्रणयं स्वाभाविकी श्रद्धामतिशयितां भक्तिं चावगम्य महावीरस्वामिना पुनस्तत्सकाशं प्रत्यावृत्तेन तस्या हस्तान्माषा गृहीताः।साऽपि कृतार्था समजनि । सर्वा सम्पत्तत्क्षणमेव तया लब्धा ।सर्वाः खलु विपदो निमेषमात्रेणैवास्तमुपागता। महापुरुषस्य प्रसादलाभेन किंवा दुरधिगमं भवेत्। ऐहिकं पारत्रिकञ्च हितं कल्याणं सुखं क्षेमं सर्वमेकपदे समधिगतं दुर्गतया राजकुमार्या। एतदेव कथावस्त्वस्य खण्डकाव्यस्य। ये खल्वत्राधीतिनो भविष्यन्ति, तेषामप्यायति : कुशला क्षेमा कल्याणी च भविष्यतीति कः संशयस्यावसरः। अधिकोक्त्या केवलं स्वकीयमसामर्थ्यमेव समुन्मिषितं भविष्यति । गृहिणो वयं केवलं संस्कृतशास्त्राध्ययनाध्यापने चाधिकृता इति महतामनुग्रहभारः समापतितोऽस्मच्छिरसि। स्वयमनधिकारितामवगच्छद्भिरपि 'आज्ञा गुरुणां ह्यविचारणीया' इति न्यायमनुस्मरद्भिर्यत् किञ्चिदत्रासंलग्नकमलेखि, तत् क्षमाधनैर्विद्वद्भिरेतत्काञ्यपाठकैरनुग्रहबुद्ध्या यावदुपादेयं तावदुपादातव्यम्। अश्रुवीणा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 178