Book Title: Ashruvina
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 10
________________ प्रस्तावना (पूर्व संस्करण से) उपनतं महदिदं मे सौभाग्यम्, अपरिमेया चानन्दलहरी। मदीयं स्वान्ततटाकमाप्लाव्य पारिप्लवीकरोति यदाचार्यवर्य श्री तुलसीगणिपादानामन्तेवासिभिः कृपास्पदीभूतैर्मुनि श्रीनथमलपादैविरचितामुश्रुवीणानामिकां काव्यकलिकामामूलचूलं स्वयं कवयितुर्मुखकमलाच्छ्रोतुमवसरमहमलभे। मन्दाक्रान्तया विरचितमिदं शतश्लोकमयं खण्डकाव्यं प्राचीन: सुगृहीतनामधेयैर्विश्वविश्रुतकीर्तिभिर्भर्तृहरिप्रभृतिभिःरचितानी शतककाव्यानि प्रतिस्पर्द्धितुमलं भवति। महाकविकालिदासोपज्ञं मदाक्रान्ताच्छन्द इति प्रत्नतत्त्वकल्पनारसिका: समाचक्षते । एतेनैव वृत्तेन तेनैव कविकुलमूर्धन्येन विरचितं मेघदूतं नाम खण्डकाव्यमद्यापि जगत्यप्रतिहतप्रचारं वरिवर्ति। एतस्यैव काव्यस्यैकैकं पदं गृहीत्वा नेमिदूतं नाम धर्मकाव्यं विरचितमार्हतसिद्धान्तप्रचिख्यापयिषुणा जैनकविना श्रीमता श्रीविक्रमेण। अधुना मुनिवरेण श्रीनथमलमहाभागेन विरचितमिदं काव्यं जैनसाहित्ये प्रतिविशिष्टं पदमधिकरिष्यतीति न ममातिवादः। शब्दसम्पदाऽर्थगाम्भीर्येणाऽहमहमिकया समापतद्भिः शब्दार्थालङ्कारैर्विभूषितं भक्तिरसोपवृंहितमुदात्तं कथावस्तु समालम्व्य प्रवृत्तमिदं खण्डकाव्यं संहृदयानां काव्यामोदिनां तत्त्वजिज्ञासूनां धर्मरहस्यबुभुत्सूनां च सममेव पूजास्पदं भविष्यतीति मम निर्विचिकित्सा मनीषा। अस्मिन् विकराले काले विद्वांसोऽप्यर्थकामचिन्तया व्यामुह्यमाना नीरन्धं शास्त्रचिन्तां कर्तुं यावदपेक्षितं मन:स्थैर्यं नासादयन्ति। अतः खल्वेतादृशकाव्यनिबन्धने न समर्था भवन्ति। प्रस्तुतस्य काव्यस्य रचयिता खलु रागद्वेषपराडमुख ऐहिकसुखनिरभिलाष सन्ततं विद्यानुशीलनेन तपश्चरणेन च लब्धसत्त्वोत्कर्ष एकाग्रेणैव मनसेदं काव्यं व्यरचयत् । अतः खल्वस्मिन् काव्ये सर्वेषां गुणानां सामानाधिकरण्यं सुलभं समपादि। अश्रुवीणा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 178