Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 386
________________ मूलं-२५९ ३८३ युक्ता यदा भवन्ति तेपांतदा स्वकीयमंगुलमात्मांगुलमुच्यत इति शेषः, इदं च पुरुषाणां कालदिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्, अनेनैवात्मांगुलेन पुरुषाणां प्रमाणयुक्तादिनिर्णय कुर्वन्नाह___ 'अप्पणो अंगुलेणं दुवालसे' त्यादि, यद्यस्यात्मीयमंगुलं तेनात्मनोंऽगुलेन द्वादशांगुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशांगुलैनवभिर्मुखैरष्टोत्तरं शतमंगुलानां संपद्यते, ततश्चैतावदुच्छ्यः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह-द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणीजलपरिपूर्णा महती कुण्डिका तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणोनजलस्योनां वा तां पूरयति स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः। इदानीमेतस्यैवोन्मानयुक्ततामाह-सारपुद्गलरचितत्वात् तुलारोपितः सन्नी भारं तुलयन् पुरुष उन्मानयुक्तो भवति, तत्रोत्तमपुरुषाः यथोक्तैः प्रमाणमानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतदर्शयन्नाहमू. (२६०) मानुम्मानपमाणजुत्ता(णय)लक्खणवंजणगुनेहिं उववेआ। उत्तमकुलप्पसूआ उत्तमपुरिसा मुणेअव्वा ।। वृ.'मानुम्मान'गाहा, अनन्तरोक्तस्वरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषा:-चक्रवादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि-शङ्खस्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपेताः, तथोत्तमकुलानि-उग्रादीनि तत्प्रसूता इति गाथार्थः ।। अथात्मांगुलेनैवोत्तममध्यमाधमपुरुषाणां प्रमाणमाहमू.( २६१) होंति पूण अहियपुरिसा अट्ठसयं अंगुलाण उव्विद्धा। - छाउइ अहमपुरिसा चउत्तरं मज्झिमिल्ला उ॥ वृ. 'हुंति पुण' गाहा, भवन्ति पुनरधिकपुरुषा-उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलम्(लानां) उव्विद्धाउन्मिता उच्चस्त्वेन वा, पुन:शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्मांगुलेनैव षण्णवत्यंगुलान्यधमपुरुषा भवन्ति, 'चउरुत्तर मज्झमिल्ला उत्ति तेनैवांगुलेन चतुरुत्तरमंगुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः ॥ ये अष्टोत्तरशतांगुलमानाद्धीना अधिका वा ते किं भवन्तीत्याहमू. ( २६२) हीना या अहिया वा जे खलु सरसत्तसारपरिहीना। ते उत्तमपुरिसाणं अवस्स पेसत्तणमति ।। वृ. 'हीना वा गाहा, अष्टोत्तरशतांगुलमानात् हीना वा अधिका वा ये खलु स्वर:-सकलजनादेयत्वप्रकृतिगम्भीरतादिगुणालंकृतो ध्वनिः सत्त्वं-दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः सार:शुभपुद्गलोपचयजः शारीर: शक्तिविशेष: तैः परिहीनाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्रारभाराणाम् अवशा-अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयन्ति, स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाधीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं, न केवलमिति लक्ष्यते, भरतचक्रवादीनां स्वांगुलतो विंशत्यधिकांगुलशतप्रमाणानामपि निर्णीतत्वात्, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500