Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 436
________________ मूलं - ३०९ ४३३ तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमो, यथा तीर्थङ्कराणामर्थस्यात्मागमः, स्वयमेव केवलो (लेनो) पलब्धेः, गणधराणां तु सूत्रास्यात्मागमः, स्वयमेव ग्रथितत्वाद्, अर्थस्यानन्तरागम:, अनन्तरेव तीर्थकरादागतत्वाद्, उक्तं च "अत्थं भासइ अरहा सुत्तं गंथंति गणहरानिउण" मित्यादि, गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः - अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागमः - गणधरेणैव व्यवधानात्, ततः ऊर्ध्वं प्रभावादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागम:, तल्लक्षणायोगाद्, अपि तु परम्परागम एव, अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः, ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वाद्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात्, न च वक्तव्यं वचनस्य पौद्गलिकत्वमसिद्धं, महाध्वनिपटलपूरितश्रवणबाधिर्यकुड्यस्खलनाद्यन्यथानुपपत्तेः तस्मानैकान्तेनापौरुषेयमागमवचः, ताल्वादिव्यापाराभिव्यांग्यत्वाद् देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरनिर्णीतत्वादिति । 'से तं लोगुत्तरिए' इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमाणमाहमू. (३०९ वर्तते ) से किं तं दंसणगुणप्पमाणे ?, २ चडव्विहे पन्नत्ते, तंजहा- चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिंदंसणगुणप्पमाणे केवलदंसणगुणप्पमाणे । चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइएसु दव्वेसु अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुन सव्वपज्जवेसु केवलदंसणं केवलदंस- णिदस्स सव्वदव्वेसु अ सव्वपज्जवेसु अ, से तं दंसणगुणप्पमाणे । वृ. दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्तं च“जं सामान्नग्गहणं भावाणं नेय कट्टुमागारं । अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ॥ ' 11 तदेवात्मनो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाच्चतुर्विधं, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनः - चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनं भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषोः कथञ्चिदभेदादेकान्तेन विशेषभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम्, उक्तं च- "निर्विशेषं विशेषाणां, ग्रहो दर्शयते" इत्यादि, - चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिनः - अचक्षुर्दर्शनलब्धिमतो 30/28 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500