Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 441
________________ ४३८ अनुयोगद्वार - चूलिकासूत्रं तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भणइ जंबुद्दीवे वसामि, जंबुद्दीवे दस खेत्ता पन्नत्ता, तंजहा- भरहे एरवए हेमवए एरन्नवए हरिवस्से रम्मगवस्से देवकुरू उत्तरकुरू पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भइ-भरहे वासे वसामि, भरहे वासे दुविहे पत्रत्तं, तंजहा दाहिणड्डूभरे उत्तरड्डूभरहे वसामि दाहिणड्डूभरहे अणेगाई गामागरणगरखेडकब्बमडंबदोणमुहपट्टणासमसंवाहसन्निवेसाई, तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भइपाडलिपुत्ते वसामि, पाडलिपुत्ते अनेगाइं गिहाई, तेसु सव्वेसु भवं वससि ?, विसु० नेग० भणइ-देवदत्तस्स घरे वसामि, देवदत्तस्स घरे अनेगा कोट्टगा, तेसु सव्वेसु भवं वससि ?, विसु० ने० भणइ गब्भघरे वसामि, एवं विसुद्धस्स नेगमस्स वसमाणो, एवमेव ववहारस्सवि, संगहस्स संधारसमारूढो वसइ, उज्जुसुअस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ, तिण्हं सद्दनयाणं आयभावे वसई । से तं वसहिदिट्ठितेणं । वृ.वसति:-निवासस्तेन दृष्टान्तेन उच्यते, तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्रादौ वसन्तं कञ्चित्पुरुषं वदेत्क्व भवान् वसति ?, तत्राविशुद्धनैगमो भणति - अविशुद्धनैगमनगामतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति - लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मक-लोकादनर्थान्तरस्त्वाद्, इत्थमपि च व्यवहारदश्नात्, विशुद्धनैगमस्त्वतिव्याप्तिरत्वादिदमसङ्गतं मन्यते, ततस्तिर्यलोके वसामीति संक्षिप्योत्तरं ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह, एवं भरतवर्षदक्षिणार्द्ध भरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम्, एवं 'विसुद्धस्स नेगमस्स वसमाणो वसइ' एवमुत्तरोत्तरभेदापेक्षया विशुद्धनैगमस्य 'वसन्त्रेव वसति, नान्यथा, इदमुक्तं भवति-यत्र गृहादौ सवर्दा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः । 'एवमेवे 'त्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः, अथ चरमनैगमोक्तप्रकारो लोके नेच्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवं, प्रोषिते देवदत्ते च इह वसति न वेति केनचित्पृष्ठे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति । 'संगहस्से' त्यादि, प्राक्तनात् विशुद्धत्वात् संग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवति-संस्तारकेऽवस्थाना दन्यत्र निवासार्थ एव न घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदीति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति । ऋजुसूत्रस्य तु पूर्वस्माद्शुिद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहाप येषु प्रदेशेषु संस्तारके वर्त्तते - संस्तार For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500