Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 446
________________ मूलं-३११ ४४३ सेकिंतंदव्वसंखा, २ विहा पन्नत्ता, तंजहा-आगमओ य नोआगमओ य, जाव से कि तं जाणयसरीरभविअसरीरवइरित्ता दव्वसंखा?, २तिविहा पन्नत्ता, तंजहा-एगभविए बद्धाउए अभिमुहनामगोत्ते अ। एगभविए णं भंते ! एगभविएत्ति कालओ केवच्चिरं होइ ?, जहन्नेणं अंतोमुहुत्तं उक्को सेणं पुव्वकोडी, बद्धाउए णं भंते ! बद्धाउएत्ति कालओ केवच्चिरं होइ ?, जहनेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीतिभागं, अभिमुहनामगोएणं भंते! अभिमुहनामगोएत्ति कालओ केवच्चिरं होइ?, जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुत्तं। इदानि को नओ कं संखं इच्छइ-तत्थ नेगमसंगहववाहार तिविहं संखं इत्छंति, तंजहाएगभविअंबद्धाउअं अभिमुहनामगोत्तं च, उज्जुसुओ दुविहं संखं इच्छइ, तंजहा-बद्धाउअं च अभिमुहनामगोत्तंच, तिनि सद्दनया अभिमुहनामगोतं संखं इच्छति, से तं जाणयसरीरभविअसरीरवइरित्ता दव्वसंखा। से तं नोआगमओ दव्वसंखा, से तं दव्वसंखा। वृ.सङ्ख्यानं सङ्ख्या संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं संख्याप्रमाणम्, इहच संख्याशब्देन संख्याशंख्योर्द्धयोरपि ग्रहणं दृष्टव्यं, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशुभूम्यादिवत्, उक्तं च "गोशब्दः पशुभूम्यंशुवाग्दिगर्थप्रयोगवान् । मन्दप्रयोगे दृष्टव्यम्बुवज्रस्वर्गाभिधायकः ।।" एवमिहापि संखा इतियाप्रकृतौक्तौ संख्या शंखाश्च प्रतीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नामस्थापनाद्रव्यादिविचारेऽपि प्रक्रान्ते संख्या शङ्खा वा यत्र घटन्ते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति। ___ 'से किं तं नामसंखे'त्यादि, सर्वं पूर्वामिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् 'जाणयसरीरभविअसरीरवइरित्ते दव्वसंखे तिविहेत पन्नत्ते' इत्यादि, इह यो जीवो मृत्वाऽनन्तरभवे शंखेषु उत्पत्स्यते ते तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः सशंख उच्यते, यत्र भवे वर्तते स एवैको भवः शंखेषत्पत्तेरन्तरेऽस्तीतिकृत्वा, एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः, शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयभागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः, तदेष त्रिविधोऽपि भावशङ्खताकारणत्वात् ज्ञशरीरभव्यशरीव्यतिरिक्तो द्रव्यशङ्ख उच्यते, यद्येवं द्विभविकत्रिभविकचतुर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चैत्, नैवं, तस्यातिव्यवहितत्वेन भावकारणतयाऽनभ्युपगमात्, तत्कारणस्यैव द्रव्यत्वाद, इदानीं त्रिविधमपि शङ्ख कालतः क्रमेण निरूपयन्नाह ‘एगभविए णं भंते !' इत्यादि, एकभविकः शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालतः कियच्चिरं भवतीति, अत्रोत्तरं-'जहण्णेण' मित्यादि, इदमुक्तं भवति-पृथिव्याद्यन्यरभवेऽन्तर्मुहूर्त जीवित्वा योऽनन्तरं शोषूत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु मत्स्याद्यन्यतमभवे पूर्वकोटीं जीवित्वैतैषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे लभ्यते, अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणं, यस्तु पूर्वकोट्यधिकाष्युक: सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शङ्केष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500