Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 450
________________ मूलं-३१७ ४४७ तु जघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तान्तकस्य क्वाप्यसम्भवादिति सर्वमपीदमष्टविधं, तदेवं संक्षेपत: संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः तत्स्वरूपनिरूपणार्थमाह'जहन्नयं संखेञ्जयं केवाइय'मित्यादि, अत्र जघन्यं संख्येयकं द्वौ, ततः परं त्रिचतुरादिकं सर्वमप्यजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति। मू.(३१७ वर्तते) उक्कोसयं संखेज्जयं केवइअंहोइ?, उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिआ एगंजोयणसयसहस्संआयामविक्खंभेणं तिनि जोयणसयसहस्साइं सोलस सहस्साइं दोनि अ सत्तावीसे जोयणसए तिनि अ कोसे अट्ठावीसं च धनुसयं तेरस रा अंगुलाई अद्धं अंगुलं च किंचिविसेसाहिअंपरिक्खेवेणं गत्रतं, से णं पल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थएहिं दीवसमुद्दाणं उद्धारो घेप्पइ, एगो दीवे एगो समुद्दे एवं पक्खिप्पमानेणं २ जावइआ दीवसमुद्दा तेहिं सिद्धत्थएहि अप्फुन्ना एस णं एवइए खेत्ते पल्ले(आइट्ठा) पढमा सलागा, एवइआणं सलागाणं असंलप्पा लोगा भरिआ तहावि उक्कोसेयं संखेज्जयं न पावइ, जहा को दिलितो?, से जहानामए मंचे सिआ आमलगाणं भरिए तत्थ एगे आमलए पक्खित्ते सोऽवि माते अनेऽवि पक्खित्ते सेऽवि माते अन्नेऽवि पक्खित्ते सेऽवि माते एवं पक्खिप्पमाणेणं २ होही सेऽवि आमलए जंसि पक्खित्ते से मंचए भरिज्जिहिइ जे तत्थ आमलए न माहिइ। वृ.तत्र कियत्पुनरुत्कृष्टं सङ्ख्येयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादित्थमाह-उत्कृष्टस्य सङ्ख्येयकस्य प्ररूपणां करिष्यामि, तदेवाह-तद्यथा नाम कश्चित्पल्मः स्यात्, कियन्मान इत्याह-आयामाविष्कम्भाभ्यां योजनशतसहस्रं, परिधिना तु "परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसऽहिया। कोसतिय अट्ठवीसं, धनुसय तेरंगुलऽद्धहियं ।।" इति गाथाप्रतिपादितमानो, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाडो दृष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं मित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः, स चैवंप्रमाणः पल्यो जम्बूद्वीपवेदिकात उपरि सप्रशिख: सिद्धार्थानां-सर्षपानां भ्रियते, 'तओ नं तेहि मित्यादि, इदमुक्तं भवति-ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्यः कल्प्यते, अत एवाह_ 'एसणं एवइए खेत्ते पल्ले'त्ति, यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'अप्फुण्ण'त्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः, सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, ततः किमित्याह-'पढमा सलाग'त्ति ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाणं सलागाणं असलप्पा लोगा भरिय'त्ति लोक्यन्ते-केवलिना दृश्यन्त इति लोकाव्याख्यानादि वक्ष्यमाणा: शलाकापल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्षकोटि-प्रकारेण संलपितुमशक्या असंलपप्ययाः, अतिबहवा इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृताःपूरितास्तथाप्युत्कृष्ट सङ्खयेयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढया भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्घयेयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500