Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 467
________________ ४६४ मू. ( ३३१ ) मू. (३३२ ) मू. (३३३ ) तस्स सामाइअं होइ, इइ केवलिभासिअं ॥ जो समोसव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, इइ केवलिभासिअं ॥ जह मम न पिअं दुक्खं जानिअ एमेव सव्वजीवाणं । न हणइ न हणावेइ अ सममणइतेन सो समणो ।। नत्थि य सि कोइ वेसो पिओ स सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ।। उवगगिरिजलणसागरनहतलतरुगणसमो अ जो होइ । भमरमियधरणिजलरुरविपवणसमो अ सो समणो ॥ तो समणो जइ सुमणो भावेन य जय न होइ पावमनो । सयणे अ जने अ समो समो अ मानावमानेसु ॥ मू. ( ३३४ ) मू. ( ३३५ ) वृ. इहाध्ययनाक्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम्, अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेप:, अत एवाह - 'से समासओ चउव्विहे' इत्यादि, सूत्रसिद्धमेव यावत् । जस्स सामानिओ अप्पा' इत्यादि, यस्य सत्त्वस्यसामानिकः - सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? - संयमे-मूलगुणरूपे नियमे - उत्तरगुणसमूहात्मके तपसि - अनशनादौ तस्येत्थंभूतस्य सामायिकं भवतीत्येतदत्केवलिभाषितमिति श्लोकार्थः ॥ जो समो' इत्यादि, यः समः सर्वत्र मैत्रीभावात्तुल्यः 'सर्वभूतेषु' सर्वजीतेषु त्रसेषु स्थावरेषु चतस्य सामायिकं भवतीत्येतदपि केवलिभाषितं, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद्धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यते इति भावं दर्शयन्नाह - 'जह मम' गाहा, व्याख्या- यथा 'मम' स्वात्मनि हननादिजनितं दुःखं न प्रियं एवमेव सर्वजीवानां तन्नाभीष्टमिति 'ज्ञात्वा' चेतसि भावयित्वा समस्तानपी जीवान्न हन्ति स्वयं, नाप्यन्यैर्घातयति, चशब्दात् घ्नतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण सममणतित्ति-सर्वजीवेषु तुल्यं, वर्तते यतस्तेनासौ समण इति गाथार्थः ॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः प्रयायो दर्शितः एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह 'नत्थि य से' गाहा, व्याख्या - नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद्, अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थः ॥ तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपनार्थमाह अनुयोगद्वार - चूलिकासूत्रं 'उरग' गाहा, स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भवतीत्याह-उरगः - सर्पस्तत्समः परकृता श्रयनिवासादिति, एवं समशब्दोऽपि सर्वत्र योज्यते, तथा गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात्, ज्वलनसम: तपस्तेजोमयत्वात्, तृणादिष्विव सूत्रार्थेष्वतृप्तेः, सागरसमो गम्भीरत्वाद् ज्ञानादिरत्नाकरात् स्वमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500