Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 468
________________ मूलं - ३३५ ४६५ तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमः संसारभयो-द्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात् जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिबद्धत्वात् स एवंभूतः श्रमणो भवतीति गाथार्थः । यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-'तो समणो'गाहा, व्याख्या- ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, 'भावेन च' भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिन्हान्येव श्रमणगुणत्वेन दर्शयति-स्वजने च पुत्रादिके जने च सामान्ये समो - निर्विशेषः मानापमानयोश्च सम इति गाथार्थः ॥ मू. ( ३३६ ) से तं नोआगओ भावसामाइए, से तं भावसामाइए, सं तं समाइए, से तं नामनिप्पन्ने । वृ . इह च ज्ञानक्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिकतद्वतोरभेदोपचारादिति भावः । नामनिष्पन्नो निक्षेपः समाप्तः ॥ अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह मू. ( ३३६ वर्तते ) से किं तं सुत्तालावगनिप्फन्ने ?, २ इदानिं सुत्तालावयनिप्पन्नं निक्खेवं इच्छावेइ, से अ पत्तलक्खणेऽवि न निक्खिप्पड़, कम्हा ?, लाघवत्थं, अत्थि इओ तइए अनुओगदारे अनुगमेत्ति, तत्थ निक्खित्ते इहं निक्खित्ते भवइ, इहं वा निक्खित्ते तत्थ निक्खित्ते भवइ, तम्हा इहं न निक्खिप्पइ तहिं चेव निक्खिपड़, से तं निक्खेवे ॥ वृ. अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप: ?, 'करोमि भदन्त ! सामायिकं' इत्यादिनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इदानि 'मित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह - लाघवार्थं, तदेव लाधवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवं, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं'तस्मादिह न निक्षिप्यते इत्यादि' । पुनरप्याह-यद्येवं किमर्थं सूत्रालापकनिक्षेपस्य अत्रोपन्यासः, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण ॥ निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् ॥ अथ तृतीयमनुयोगद्वारं निरूपयितुमाह मू. ( ३३७ ) से किं तं अनुगमे ? २ दुविहे पन्नत्ते, तंजहा - सुत्तानुगमे अ निज्जुत्तिअनुगमे अ । से किं तं निज्जुत्ति अनुगमे ?, २ तिविहे पन्नत्ते, तंज़हा- निक्खेवनिज्जुत्ति अनुगमे उवग्धा 30/30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500