________________
मूलं - ३३५
४६५
तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमः संसारभयो-द्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात् जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिबद्धत्वात् स एवंभूतः श्रमणो भवतीति गाथार्थः ।
यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-'तो समणो'गाहा, व्याख्या- ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, 'भावेन च' भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिन्हान्येव श्रमणगुणत्वेन दर्शयति-स्वजने च पुत्रादिके जने च सामान्ये समो - निर्विशेषः मानापमानयोश्च सम इति गाथार्थः ॥
मू. ( ३३६ ) से तं नोआगओ भावसामाइए, से तं भावसामाइए, सं तं समाइए, से तं नामनिप्पन्ने ।
वृ . इह च ज्ञानक्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिकतद्वतोरभेदोपचारादिति भावः । नामनिष्पन्नो निक्षेपः समाप्तः ॥ अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह
मू. ( ३३६ वर्तते ) से किं तं सुत्तालावगनिप्फन्ने ?, २ इदानिं सुत्तालावयनिप्पन्नं निक्खेवं इच्छावेइ, से अ पत्तलक्खणेऽवि न निक्खिप्पड़, कम्हा ?, लाघवत्थं, अत्थि इओ तइए अनुओगदारे अनुगमेत्ति, तत्थ निक्खित्ते इहं निक्खित्ते भवइ, इहं वा निक्खित्ते तत्थ निक्खित्ते भवइ, तम्हा इहं न निक्खिप्पइ तहिं चेव निक्खिपड़, से तं निक्खेवे ॥
वृ. अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप: ?, 'करोमि भदन्त ! सामायिकं' इत्यादिनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इदानि 'मित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह - लाघवार्थं, तदेव लाधवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवं, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं'तस्मादिह न निक्षिप्यते इत्यादि' ।
पुनरप्याह-यद्येवं किमर्थं सूत्रालापकनिक्षेपस्य अत्रोपन्यासः, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण ॥ निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् ॥
अथ तृतीयमनुयोगद्वारं निरूपयितुमाह
मू. ( ३३७ ) से किं तं अनुगमे ? २ दुविहे पन्नत्ते, तंजहा - सुत्तानुगमे अ निज्जुत्तिअनुगमे अ । से किं तं निज्जुत्ति अनुगमे ?, २ तिविहे पन्नत्ते, तंज़हा- निक्खेवनिज्जुत्ति अनुगमे उवग्धा
30/30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org