SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४६६ अनुयोगद्वार-चूलिकासूत्रं यनिज्जुत्तिअनुगमे सुत्तप्फासिअनिज्जुत्तिअनुगमे। सेकिंतं निक्खेवनिज्जुत्तिअनुगमे? अनुगए, सेतंनिक्खेवनिज्जुत्तिअनुगमे।से किंतं उवग्घायनिज्जुत्तिअनुगमे?, २ इमाहिं दोहिं भूलगाहाहिं अनुगंतव्वो, तंजहामू. (३३८) उद्देसे १ निद्देसे अ२ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य६ । . कारण ७ पच्चय ८ लक्खण ९ नए १० समोआरणानुमए ११ ॥ मू. (३३९) किं १२ कइविहं १३ कस्स १४ कहिं १५ केसु १६ कहं १७ किच्चिरं हवइ कालं १८?।। कइ १९ संतर २० मविरहियं २१ भवा २२ गरिस २३ फारस २४ निरुत्ती २५ ।। [से तं उवग्घायनिज्जुत्तिअनुगमे]. वृ.अनुगमः-पूर्वोक्तशब्दार्थः, सच द्विधा-सूत्रानुगमः-सूत्रव्याख्यानमित्यर्थः, 'नियुक्त्यनुगमश्च नितरां युक्ताः- सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता-अर्थास्तेषां युक्तिः-स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपानियुक्तिः-नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रुपोऽनुगमस्तस्या वा अनुगमो-व्याख्यानं नियुक्त्यनुगमः, स च त्रिविदो-निक्षेपोनास्थापनादिभेदभिन्नः तस्य तद्विषया वा नियुक्तिः-पूर्वोक्तशब्दार्था निक्षेपनियुक्तिः तद्रुपस्तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः। ___ तथा उपोद्धननं-व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिस्तद्रुपस्तस्या वा अनुगमः उपोद्घातनिर्युक्त्यनुगमः, तथा सूत्रं स्पृशतीति सूत्रस्पशिका सा चासौ नियुक्तिश्च सूत्रस्पर्शिकृनियुक्तिः। . . तत्र निक्षेपनियुक्तिक्त्यनुगमाऽनुगतो वक्ष्यते च, इदमुक्तं भवति-अत्रैव प्रागावश्यकसामायिकादिपदानां नामस्थापनादिनिक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनियुक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा__'उद्देसे' गाहा 'किं कइविहं'गाहा, व्याख्या-उद्देशनमुद्देशः-सामान्याभिधानरूपो, यथा अध्ययनमिति, वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो-विशेषाभिधानं, यथा सामायिकमिति, अत्राह-ननु सामान्यविशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव, तत्किमितीह पुनरुच्यते?, नैतदेवं, यतोऽत्र सिद्धस्यैव तत्र तस्य निक्षेपमात्राभिधानं कृतमित्यदोषः । तथा निर्गमनं-निर्गमः, कृतः सामायिकं निर्गतमित्येवंरूपो वक्तव्यः, तथा क्षेत्रकालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ, यद्वक्ष्यत्यावश्यके "वइसाहसुद्धएक्कारसीऍ पुव्वण्हदेसकालंमि। __ महसेणवनुज्जाणे अनंतर परंपरंसेस "त्ति तथा कुतः पुरुषात्तन्निर्गमिति वक्तव्यं, तथा केन कारणेन गौतमादयः सामायिकं भगवतः समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यं, यदभिधास्यति-"गोयमाई सामाइयं तु किं कारणं निसामिती'त्यादि, तथा प्रत्यायतीति प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? स केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच्छृण्वन्तीत्येतद्वक्तव्यमित्यथः, तथा च वक्ष्यति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy