________________
४६४
मू. ( ३३१ )
मू. (३३२ )
मू. (३३३ )
तस्स सामाइअं होइ, इइ केवलिभासिअं ॥ जो समोसव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, इइ केवलिभासिअं ॥ जह मम न पिअं दुक्खं जानिअ एमेव सव्वजीवाणं । न हणइ न हणावेइ अ सममणइतेन सो समणो ।। नत्थि य सि कोइ वेसो पिओ स सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ।। उवगगिरिजलणसागरनहतलतरुगणसमो अ जो होइ । भमरमियधरणिजलरुरविपवणसमो अ सो समणो ॥ तो समणो जइ सुमणो भावेन य जय न होइ पावमनो । सयणे अ जने अ समो समो अ मानावमानेसु ॥
मू. ( ३३४ )
मू. ( ३३५ )
वृ. इहाध्ययनाक्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम्, अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेप:, अत एवाह - 'से समासओ चउव्विहे' इत्यादि, सूत्रसिद्धमेव यावत् ।
जस्स सामानिओ अप्पा' इत्यादि, यस्य सत्त्वस्यसामानिकः - सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? - संयमे-मूलगुणरूपे नियमे - उत्तरगुणसमूहात्मके तपसि - अनशनादौ तस्येत्थंभूतस्य सामायिकं भवतीत्येतदत्केवलिभाषितमिति श्लोकार्थः ॥
जो समो' इत्यादि, यः समः सर्वत्र मैत्रीभावात्तुल्यः 'सर्वभूतेषु' सर्वजीतेषु त्रसेषु स्थावरेषु चतस्य सामायिकं भवतीत्येतदपि केवलिभाषितं, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद्धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यते इति भावं दर्शयन्नाह -
'जह मम' गाहा, व्याख्या- यथा 'मम' स्वात्मनि हननादिजनितं दुःखं न प्रियं एवमेव सर्वजीवानां तन्नाभीष्टमिति 'ज्ञात्वा' चेतसि भावयित्वा समस्तानपी जीवान्न हन्ति स्वयं, नाप्यन्यैर्घातयति, चशब्दात् घ्नतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण सममणतित्ति-सर्वजीवेषु तुल्यं, वर्तते यतस्तेनासौ समण इति गाथार्थः ॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः प्रयायो दर्शितः एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह
'नत्थि य से' गाहा, व्याख्या - नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद्, अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थः ॥ तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपनार्थमाह
अनुयोगद्वार - चूलिकासूत्रं
'उरग' गाहा, स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भवतीत्याह-उरगः - सर्पस्तत्समः परकृता श्रयनिवासादिति, एवं समशब्दोऽपि सर्वत्र योज्यते, तथा गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात्, ज्वलनसम: तपस्तेजोमयत्वात्, तृणादिष्विव सूत्रार्थेष्वतृप्तेः, सागरसमो गम्भीरत्वाद् ज्ञानादिरत्नाकरात् स्वमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org