Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६८
अनुयोगद्वार-चूलिकासूत्रं आकर्षणमाकर्षः-एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि-प्रतिपत्तय इति वाच्यं, तच्च वक्ष्यति
"तिण्हं सहसपुहुत्तं सयप्पहुत्तं च होइ विरईए।
एगभवे आगरिसा एवइया होंति नायव्वा॥ तिण्ह सहस्समसंखा सहसपुहुत्तं च होइ विरईए।
नाणाभवे आगरिसा एवइया हुंति नाय-व्वा।।" इति, फासण'त्ति कियत् क्षेत्र सामायिकवन्तः स्पृशन्तीत्यभिधानीयं, तच्चैवम्
___"सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं ।
सत्त य चउदसभाए पंच य सुयदेसविरईए॥ . इत्यादि, निश्चित्ता उक्तिनिरुक्तिर्वक्तव्या, तत्र च -
"चम्मद्दिट्ठि अमोहो सोही सब्भावं दंसणं बोही।
- अविवज्जओ सुदिट्ठित्ति एवमाई निरुत्ताइ।" -मित्यादि वक्ष्यति, एवं तावद्गाथाद्वयसंक्षेपार्थः, विस्तरार्थस्त्वावश्यकनियुक्तिटीकाभ्यामवसेय इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनियुक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति, ततः प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनियुक्तेरवसरः संपद्यते, सूत्रं च सूत्रानुगमे सत्येवं भवति, सोऽप्यवसरप्राप्त एव, ततस्तमभिधित्सुराह
मू.(३४०)से किंतं सुत्तप्फासिअनिज्जुत्तिअनुगमे ? २ सुत्तं उच्चारेअव्वं अक्खलिअं अमिलिअं अवच्चामेलिअं पडिपुन पडिपुत्रघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, तओ तत्थणज्जिहिति ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइअपयं वा नोसामाइअपयं वा, तओ तम्मि उच्चारिए समाणे केसिं च नं भगवंताणं केइ अत्थाहिगारा अनहिगया भवंति, ततो तेसिं अनहिगयाणं अहिगमनट्ठाए पयं पएणं वनइस्सामि,मू.(३४१) संहिया य पदं चेव, पयत्थो पयविग्गहो।
चालना य पसिद्धी अ, छव्विहं विद्धि लक्खणं॥ मू.(३४२) से तं सुत्तप्फासियनिज्जुत्तिअनुगमे, सेतं निज्जुत्तिअनुगमे, सेतं अनुगमे।
वृ. आह-ननु यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शिकनियुक्त्याः प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ?, यावता सूत्रानुगमं निर्दिश्य पश्चात्किमिति नोच्यते ?, सत्यं, किन्तु नियुक्तिसाम्पात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । प्रकृतमुच्यते-तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग्द्रव्यावश्यकविचारे कृता तथैव दृष्टव्या, अयं च सूत्र दोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणं, तच्चेदम्
" , "अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च।
__ लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ॥" __ अस्या व्याख्या-अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः 'उत्पादव्ययध्रौव्ययुक्तं सदि'त्वादिवत्सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः, यच्च द्वात्रिंशद्दोषविरहितं तत्सूत्रं भवति, के
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500