Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 470
________________ ४६७ मूलं-३३९ "केवलनाणित्ति अहं अरिहा सामाइयं परिकहेई। तेसिपि पच्चओ खलु सव्वन्नू तो निसामिति ।।"त्ति, तथा सम्यक्त्वसामायिकस्यतत्त्वश्रद्धानंलश्रणं, श्रुतसामायिकस्य जीवादिपरिज्ञानं, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्यं तु विरत्यविरतिस्वरूपं मिश्रं लक्षणं, निर्देक्ष्यति च-"सद्दहण जानना खलु विरई मीसं च लक्खणं कहए" इत्यादि, एवं नैगमादयो नया वाच्याः, तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयो, यतो निवेदयिष्यति "मूढनइयं सुयं कालियं तु न नया समोअरंति इहं । अपहत्ते समोयारो नत्थि पहत्ते समोयारो।। इत्यादि, तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयं, भणिष्यति च "तवसंजमो अनुमओ निग्गंथं पवयणं च ववहारो। सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥"त्ति, कि सामायिकमित्यत्र प्रत्युत्तरयिष्यति-"जीवो गुण पडिवनो नयस्स दव्वट्ठियस्स सामइय"मित्यादि, कतिविधं तदत्यत्र निर्वचनयिष्यति-"सोमाइयं च तिविहं संमत्त सुयंतहा चरित्तं चे"त्यादि, कस्य सामायिकमित्यत्राभिधास्यति-जस्स सामाणिओ अप्पा' इत्यादि, क्व सामायिकमित्येतदपि-"खेतदिसकालगइभवियसन्निउस्सासदिट्ठिमाहारे" इत्यादिना द्वारकलापेन निरू पयिष्यति, केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि "सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे। देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ।।" इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र-"मानुस्स खेत्त जाई कुलरूवारोग आउयं बुद्धि"त्यादि प्रतिपादयिष्यति, कियच्चिरं कालं तद्भवतीतिचिन्तायामभिधास्यति. "सम्मत्तस्स सुयस्स य छावट्ठि सागरोवमाइ ठिइ। सेसाण पुव्वकोडी देसणा होइ उक्कोसा। _ 'केइ'त्ति कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च-"सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ"इत्यादि, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति "कालमनंतं च सुए अद्धापरियट्टओ य देसूनो। आसायणबहुलाणं उक्कोसं अंतर होइ॥"त्ति, अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति "सम्मसूय अगारीणं आवलिय असंखभागमेत्ता उ। अट्ट समया चरित्ते सव्वेसु जहन्न दो समआ।" इत्यादि, कियतो भवान उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति - "सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ। अट्ठ भवा उ चरित्ते अनंतकालं च सुयसमए।" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500