Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 472
________________ ४६९ मूलं-३४२ पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीयाः ? उच्यते, अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं। . निस्सारमहियमूणं पुनरुत्तं वाहयमजुत्तं ॥१॥ कमभिन्नवयणभिन्नं विभित्तभिन्नं च लिंगभिन्नं च। अनभिहियमपयमेव य सहावहीणं ववहियं च ॥२॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमित्तं च। अत्थावत्तीदोसो नेओ असमासदोसो य ।।३।। उवमारूवगदोसो निद्देसपयत्थसंधिदोसो य। एए अ सुत्तदोसो बत्तीसा हुंति नायव्वा ।।४।। तत्रानृतमभूतोद्भावनं भूतिनिह्नवच्च, यथा ईश्वरकृर्तृकं जगदित्याद्यभूतोद्भावनं, नास्त्यात्मेत्यादिकस्तु भूतनिहवः १, उपघातः सत्त्वघातादि: तज्जनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थो, यथा अआइईत्यादि डित्थादिवद्वा ३, असम्बद्धार्थकमपार्थकं, यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४, यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलं, यथा-नवकम्बलो देवदत्त इत्यादि ५, जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषक द्रुहिलं, यथा एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ।।१॥ - पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते। न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥२॥ इत्यादि६ वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गुनि:सारं७, अक्षरपदादिभिरतिमात्रमधिकं ८, तैरेव हीनमूनम्, अथवा हेतोदृष्टान्तस्य वाऽऽधिक्ये सत्यधिकं, यथा-अनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येकं द्वयाभिधानादाधिक्यमिति भावः, हेतुदृष्टान्ताभ्यामेव हीनमूनं, यथा अनित्यः शब्दो घटवदिति, यथा(द्वा)अनित्यः शब्दः कृतकत्वादित्यादि ९, पुनरुक्तं द्विधाशब्दतोऽर्थतश्च, तथाऽर्थादापत्रस्य पुनर्वचनं पुनरुक्तं, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घट: कुटः कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते उत्युक्ते अर्थादापन्नं रात्रौ भुक्त इति, तत्रार्थापन्नमपि य एतत्साक्षाद् ब्रूयात्तस्य पुनरुक्ता १०, ___ व्याहतं यत्र पूर्वेण परं विहन्यते यथा-'कर्मचास्ति, फलं चास्ति, कर्ता न त्वस्ति कर्मणा'मित्यादि ११, अयुक्तमनुपपत्तिक्षम, यथा-तेषां कटकटभ्रष्टैगजानां मदबिन्दुभिरित्यादि १२, क्रमभिन्नं यत्र क्रमो नाराध्यते, यथा-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धरूपशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, वचनभिन्नं यत्र वचनव्यत्ययो, यथा वृक्षाः ऋतौ पुष्पितः इत्यादि १४, विभिक्तिभिन्नं यत्र बिभक्तिव्यत्ययो, यथा वृक्षं पश्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500