________________
४६९
मूलं-३४२ पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीयाः ? उच्यते,
अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं। . निस्सारमहियमूणं पुनरुत्तं वाहयमजुत्तं ॥१॥ कमभिन्नवयणभिन्नं विभित्तभिन्नं च लिंगभिन्नं च। अनभिहियमपयमेव य सहावहीणं ववहियं च ॥२॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमित्तं च।
अत्थावत्तीदोसो नेओ असमासदोसो य ।।३।। उवमारूवगदोसो निद्देसपयत्थसंधिदोसो य।
एए अ सुत्तदोसो बत्तीसा हुंति नायव्वा ।।४।। तत्रानृतमभूतोद्भावनं भूतिनिह्नवच्च, यथा ईश्वरकृर्तृकं जगदित्याद्यभूतोद्भावनं, नास्त्यात्मेत्यादिकस्तु भूतनिहवः १, उपघातः सत्त्वघातादि: तज्जनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थो, यथा अआइईत्यादि डित्थादिवद्वा ३, असम्बद्धार्थकमपार्थकं, यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४, यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलं, यथा-नवकम्बलो देवदत्त इत्यादि ५, जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषक द्रुहिलं, यथा
एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः ।
भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ।।१॥ - पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते।
न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥२॥ इत्यादि६ वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गुनि:सारं७, अक्षरपदादिभिरतिमात्रमधिकं ८, तैरेव हीनमूनम्, अथवा हेतोदृष्टान्तस्य वाऽऽधिक्ये सत्यधिकं, यथा-अनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येकं द्वयाभिधानादाधिक्यमिति भावः, हेतुदृष्टान्ताभ्यामेव हीनमूनं, यथा अनित्यः शब्दो घटवदिति, यथा(द्वा)अनित्यः शब्दः कृतकत्वादित्यादि ९, पुनरुक्तं द्विधाशब्दतोऽर्थतश्च, तथाऽर्थादापत्रस्य पुनर्वचनं पुनरुक्तं, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घट: कुटः कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते उत्युक्ते अर्थादापन्नं रात्रौ भुक्त इति, तत्रार्थापन्नमपि य एतत्साक्षाद् ब्रूयात्तस्य पुनरुक्ता १०, ___ व्याहतं यत्र पूर्वेण परं विहन्यते यथा-'कर्मचास्ति, फलं चास्ति, कर्ता न त्वस्ति कर्मणा'मित्यादि ११, अयुक्तमनुपपत्तिक्षम, यथा-तेषां कटकटभ्रष्टैगजानां मदबिन्दुभिरित्यादि १२, क्रमभिन्नं यत्र क्रमो नाराध्यते, यथा-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धरूपशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, वचनभिन्नं यत्र वचनव्यत्ययो, यथा वृक्षाः ऋतौ पुष्पितः इत्यादि १४, विभिक्तिभिन्नं यत्र बिभक्तिव्यत्ययो, यथा वृक्षं पश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org