Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - ३२४
श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात्, क्षायोपशमिकभावनाम्नि समवतरति,
आह च भाष्यकार:
"छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमयं तयं सव्वं ।।" प्रमाणे च द्रव्यादिभेदै: प्राग्निर्णीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति, "दव्वाइचउब्भेयं पमीयए जेण तं पमाणंति । इणमज्झणं भावोत्ति भाव (प)माणे समोयरइ ।। "
भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा प्रोक्तं, तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारो,. नयप्रमाणे तु यद्यपि - 'आसञ्ज उ सोयारं नए नयविसारओ बूया' इत्यादिवचनात् क्वचिन्नयमसवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचाराभावद्वस्तुवृत्त्याऽनवतार एव, यत इदमुप्युक्तम्"मूढनइयं सुयं कालियं तु न नया समोयरंति इह" मित्यादि, महामतिनाऽ TSप्युक्तम्
"मूढनयं तु न संपई नयप्पमाणावआरो से "त्ति, गुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तं, तत्रास्य जीवोपयोगरूपत्वाञ्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्विधे प्रकृताध्ययनस्याप्तोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिकलोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके तत्रापि आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः, सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्ते परिमाणसङ्ख्यायामस्यावतारः, वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयतः स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन स्वसमयत्वात्, सम्यग्दृष्टिर्हि परसमयमपि विषयविभागेन योजयति नत्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीतः स्वसमय एव, अत एव परमार्थतः सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः, तदुक्तम्
"परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं । तो सव्वज्झयणाई ससमयवत्तव्वनिययाई ॥"
४५९
एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्तः समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् || अथ निक्षेपद्वारं निरपयितुमाह
मू. ( ३२५ ) से किं तं निक्खेवे ?, २ तिविहे पन्नत्ते, तंजहा- ओहनिप्फन्ने नामनिप्फन्ने सुत्तालावगनिप्फन्ने । से किं तं ओहनिप्फन्ने ?, २ पन्नत्ते, तंजहा - अज्झयणे अज्झीणे आए खवणा । से किं तं अज्झयणे ?, २ चउव्विहे पन्नत्ते, तंजहा- नामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे, नामठवणाओ पुव्वं वन्निआओ, से किं तं दव्वज्झयणे ?, २ दुविहे पन्नत्ते, तंजहाआगमओ अ नोआगमओ अ ।
Jain Education International
से किं तं आगमओ दव्वज्झयणे ?, २ जस्स णं अज्झयनत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एव जावइआ अनुवउत्ता आगमओ तावइआइं दव्वज्झयनाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अनेगो वा जाव, से तं आगमओ दव्वज्झयणे। से किं तं नो आगमओ
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500