Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 458
________________ मूलं - ३१८ ४५५ त्रिविधामपि वक्तव्यतामिच्छतः नैगमस्यानेकगमत्वाद्वयवहार (पर) स्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः, ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह- 'तत्थ णं जा सा' इत्यादि, तृतीयवक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, कोऽर्थः ? - प्रथमे वक्तव्यताभेदे अन्तर्भूता, इत्यर्थ: या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः । संग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्यादा न पृथगुक्त इति । त्रयः शब्दनयाः- शब्दसमभिरूढैवंभूताः शुद्धतमत्वादेकां स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यते, कस्मादित्याह यस्मात् परसमयोऽनर्थः, इत्यादि, इत्थं चेह योजना कार्या - नास्ति परसमयवक्तव्यता, परसमसयस्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवात्मेत्यर्नथप्रतिपादकत्वाद्, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः उक्तं च "जो चिंतेइ सरीरे नत्थि अहं स एव होइ जीवोत्ति । नहु जीवंमि असंते संसयउप्पायओ अन्नो || " इत्याद्यन्यप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चायं ज्ञानादेस्तद्गुणस्योपलब्धेः, उक्तं च "नाणाईण गुणाणं अनुभवओ होइ जंतुणो सत्ता । जह रुवाइगुणाणं उवलंभाओ घडाईण ।। " - मित्यादि प्रागेवोक्तमिति, असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वाद्, एकान्तक्षणभङ्गादेश्चासद्द्भूतत्वं युक्तिविरोधात्, तथाहि 'धम्माधम्मुवएसो कयाकयं परभवाइगमनं च । सव्वावि हु लोयठिई न घडइ एगंतखणियम्मी ॥" त्यादि, अक्रियात्वं चैकान्तशून्यताप्रतिपादनात् सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवाद्, उक्तं च 44 "सव्वं सुन्नति जयं पडिवन्नं जेहि तेऽपि वत्तव्या । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ? ।। " इत्यादि, उन्मार्गत्वं परस्परविरोधस्थाण्वाद्याकुलत्वात्, तथाहि इत्याद्यभिधाय पुनरपि Jain Education International न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च । आत्मवत्सर्वभूतानि, यः पश्यति स धार्मिकः ॥ षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥ इत्यादि प्रतिपादयन्तीति, अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500