Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 454
________________ मूलं-३१७ ४५१ 'तेन'मित्यादि, तत: परमसंख्येयासंख्येयकस्य असंख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति, यावदुत्कृष्टासंख्येयासंख्येयकं न प्राप्नोति। अत्र विनेयः प्रश्नयति-'उक्कोस असंञ्जासंखेञ्जकंकेत्तिय' मित्यादि, अत्रोत्तरम्-'जहन्नायं असंखेञ्जासंखेञ्ज'मित्यादि, जघन्यमसंख्येयासंख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येयकरूपसंख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः-परस्परं गुणनास्वरूप: एकेन रूपेणोनः उत्कृष्टमसङ्ख्येयासङ्ख्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासङ्खयेयासङ्घयेयकरूपा जघन्यसङ्घयेयासङ्घयेयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तेश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसङ्ख्येयासङ्ख्येयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति-'अहवा जहन्नयं परित्तानंतय'मित्यादि, गतार्थमेव, इत्येकीयाचार्यमतं, तावद्दर्शितम्। __ अन्ये त्वाचार्या उत्कृष्टमसङ्घयेयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहि-जघन्यासङ्ख्येयासङ्खयेयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकसङ्खयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा "लोगागासपएसा धम्माधम्मेगजीवदेसा य। दव्वट्ठिआ निओआ पत्तयो चेव बोद्धव्वा ॥१॥ ठिइबंधज्झवसाणा अनुभागा जलगछेअपलिभागा। दोण्ह य समाण समया असंखपक्खेवया दस उ॥२॥ इदमुक्तं भवति-लोकाकाशस्य यावन्त: प्रदेशस्तथा धर्मास्तिकायस्य अधर्मास्तिकायस्य एकस्य चजीवस्य यावन्तः प्रदेशाः 'दव्वट्ठिया निओय'त्ति सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीरणीत्यर्थः. 'पत्तेया चेव'त्ति अनन्तकायिकान्वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसा: प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्घयया भवन्ति, ठिइबंधज्झवसाण'त्ति स्थितिबन्धस्य कारणभृतानि अध्यवसायस्थानानि तान्यप्यसङ्ख्येयान्येव, तथाहिज्ञानावरणस्य जघन्योऽन्तमुहूर्तप्रमाणः स्थितिबन्ध उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽमङ्ख्येयभेदः, एषांचस्थितिबन्धानां निर्वर्तकानि अध्यवसायस्थानानि प्रत्येक भिवान्यव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्खयेयानि स्थितिबन्धाध्यवसायस्थानानि लायन्ते. एवं दर्शनावरणादिष्वपि वाच्यमिति। ___ 'अनुभाग'त्ति अनुभागा:-ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषताः, एतेषां चानुभागविशेषाणां निवर्तकान्यसङ्घयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, अतोऽनुभागविशेषा अप्येतावन्त एव दृष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानां, 'जोगच्छेयपलिभाग'त्ति योगो-मनोवाक्यविषयं वीर्यं तस्य कंवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निविभागा भागा योगच्छेदप्रतिभागाः, तेच निगोदादीनां मंज्ञिपञ्चन्द्रियपर्यन्तानां जीवानामाश्रितः जघन्यादिभेदभिन्ना असङ्ख्येया मन्तव्याः 'दुण्हय समाण समय'ति द्वयोश्च समयोः-उत्सर्पिण्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500