Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४४२
अनुयोगद्वार-चूलिकासूत्रं कुण्डे बदराणीति, न च प्रदेशदेशिनौ भेदेनोपलभ्येते, अथ अभेदेपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोषः स्यात्, अथ कर्मधारयेण भणसि, ततो विशेषेण भण 'धम्मे अ से पएसे य से'त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारणः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः।। . आह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायाद्रव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते? उत तदेकदेशवृत्तिः सन्? यथा जीवास्तिकाायैकदेशवृत्तिर्जीवप्रदेश इत्याशंक्याह'से पएसे धम्मे'त्ति सच प्रदेशः सकलधर्मास्तिकायदव्यतिरिक्तो न पुनस्तदेशदेकवृत्तिरित्यर्थः, शेषभावना पूर्ववत्, ‘से पएसे नोजीवे से पएसे नोखंधे'इत्यत्रापि पूर्ववदेवार्थकथनम्। __ एवं वदन्तं समभिरूढंसाम्प्रतमेवभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत्तत्सर्वं समस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णम्-आत्मस्वरूपेणाविकलं निरवशेषंतदेवैकत्वानिरवयवमेकग्रहणगृहीतम् एकाभिधानाभिधेयं न नानाभिधानभिधेयं, तानि ह्येकस्मिार्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद्धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देशप्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपयोगात्, तथाहि-प्रदेशप्रदेशिनोर्भेदो वा स्यादभेदो वा?, यदि प्रथमः पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गो, न च तथोपलब्धिरस्ति, अथाभेदस्तहि धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेववस्त्विति। तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्परं निरपेक्षया दुर्नयाः, सौगतादिसमयवत्, परस्परसापेक्षस्तु सुनयाः, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्णं भवति, नैकैकावस्थायाम्, उक्तं च स्तुतिकारेण
"उदधाविव, सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः।
न च तासु भवान् प्रदृश्यते, पविभक्तासु सरित्स्विवोदधिः ॥" एते च नया ज्ञानरूपास्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद्बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात्पृथगुक्ताः । तदेतत्प्रदेशदृष्टान्तेनेति निगमनम्। प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति-तदेतन्नप्रमाणमिति । अनेन च दृष्टान्तत्रयेण दिग्मात्रदर्शनमेव कृतं, यावता यत्किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचार: प्रवर्तते इत्यलं बहुजल्पितेनेति। इतः क्रमप्राप्तं सङ्खयाप्रमाणं विवरीषुराह
मू.(३११) से किं तं संखप्पमाणे?, २ अट्ठविहे पन्नत्ते, तंजहा-नामसंखा ठवणसंखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाननासंखा गणनासंखा भावसंखा । से किं तं नामसंखा?, २ जस्सणं जीवस्स वा जावसे तं नामसंखा । सेकिंतंठवणसंखा?, २ जण्णं कट्ठकम्मे वा पोत्थकम्मे वा जाव से तंठवणसंखा । नामठवणाणं को पइविसेसो?, नाम (पाएण) आवकहियं ठेवणा इत्तरिया वा होज्जा आवकहिया वा होज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500