Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 402
________________ मूलं- २७५ विसंघाइज्जइ, तम्हा से समए न भवइ । एत्तोऽवि अ नं सुहुमतराए समए पन्नत्ते समणाउसो ! वृ. अथ कोऽयं समय इति पृष्टे सत्याह-समयस्य प्ररूपणां विस्तरक्त व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपंथमवतरतीति भावः, तदेवाह - 'से जहानाम' इत्यादि, सकश्चित् यथानामको यत्प्रकारनामा देवदत्तादिनामेत्यर्थः, 'तुण्णाहगारए' सूचिक इत्यर्थः, 'स्यात्' भवेत्, यः किमित्याह - तरुणादिवेशेषणाविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा 'सयराहं' झटिति कृत्वा हस्तमात्रमपसारयेत्-पाटयेदिति सण्टङ्कः, अथवा 'स' इति पूर्ववत् ‘यथे'त्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च सकश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुमादिविशेषणः 'स्यात्' कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत्-पाटयेदिति तथैव सम्बन्धः, तत्र तरुण:प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ?, नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विश्ष्टामर्थप्रतिपादनार्थश्चायमारम्भ:, सोऽदुष्टो - निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणं, 'जुवाणो 'त्ति युवा-यौवनस्थः प्राप्तवया एष इत्येवम् अनति-व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम्, अल्पशब्दोऽग्रहस्तोहस्ताग्रं यस्य स तथा, दृढं पाणिपादं यस्य पार्श्वो पृष्ठ्यन्तरे च ऊरू च परिणते - परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलयमलजुयलपरिघणिभबाहू' तलौतालवृक्षौ तयोर्यमलं- समश्रेणीकं यद् युगलं द्वयं परिघश्च-अर्गला तन्निभौ - तत्सदृशौ दीर्घ सरलपीनत्वादिना बाहू यस्य स तथा आगन्तुकोपकरणजं सामर्थ्य माह'चर्मेष्ष्टकाद्रुघणमुष्टिकसमाहतनिचितगात्रकाय: ' चर्मेष्टकया ग्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि - निबिडीकृतानि गात्राणि - स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो - देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव,' 'औरस्यबलसमन्वागत' आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्तां दर्शयति ३९९ Jain Education International - 'लङ्घनप्लवनव्यायामसमर्थः ' जवनशब्दः शीघ्रवचन:, छेकः - प्रयोगज्ञः दक्षः - शीघ्रकारी प्राप्तार्थः-अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये, कुशलः- आलोचितकारी मेघावीसकृच्छ्रुतदृष्टकर्मज्ञः निपुण - उपायारम्भकः निपुणशिल्पोपगतः - सूक्ष्मशिल्पसमन्वितः, एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानं, स इत्थम्भूत एकां महतीं पटसाटिकां पट्टाटिकां वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानं, गृहीत्वा 'सयराह' मिति सकृत् झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत्-पाटयेदित्यर्थः, तत्रैवं स्थिते प्रेरक :- शिष्यः प्रज्ञापयतीति प्रज्ञापको - गुरुस्तमेवमवादीत्, किम ? - येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं - पाटितमसौ समयो भवति ?, प्रज्ञापक आहनायमर्थः समर्थः--नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसाटिकां For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500