Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं-२९९
४१७ भा०, असुरकुमाराणं भंते! के० वेउबिअसरीरा पं०?, गो०! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थणं जे ते बद्धलया ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओखेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागो, तासिणं सेढीणं विक्खंभसूईअंगुलपढमवग्गमूलस्सअसंखिज्जइभागो, मुक्केल्लया जहाओहिया ओरालिअसरीरा,
असुरकु० केवइआ आहारगसरीरा पं०?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्ध० मुक्के०, जहा एएसिं चेव ओरा० तहा भा०, तेअगकम्म० तहा एए० वेउ० तहा भाणिअव्वा, जहा असुरकुमाराणं तहा जाव थणिअ० ताव भाणिअव्वं।
वृ.द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रुपेणैव नारकेषु सत्त्वमवसेयं, न सद्रुपेण, अत एवोक्तं-तत्र यानि बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि चौधिकमुक्तौदारिकवद्वाच्यानि, यानि वैक्रियशरीराणि तानि तु बद्धान्येषामसख्येयानि, प्रतिनारकमेकैकवैक्रियसद्भावात्, नारकाणां चासङ्ख्येयत्वात्, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्ययभागवर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति, ननु प्रतरासङ्ख्येयभागे असङ्ख्येया योजनकोट्यऽपि भवन्ति, तत्किमेतावत्यपि क्षेत्रे या नभः श्रेण्यो भवन्ति ता इह गृह्यन्ते ?, नेत्याह_ 'तासिणं सेढीणं विक्खंभसूई'त्यादि, तासां श्रेणीनां विष्कम्भसूचिः-विस्तरश्रेणिर्जयेति शेषः, कियतीत्याह-'अंगुली'त्यादि, अङ्गलप्रमाणे प्रतरक्षेत्र यः श्रेणी:-राशिस्तत्र विकालसङ्ख्येयानि विर्गमूलानि तिष्ठन्त्यतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न-गुणितं तथा च सति यावत्योऽत्र श्रेण्यो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्यः श्रेण्योऽत्र गृह्यन्त इत्यर्थः, इदमुक्तं भवति-अङ्गलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वेशते श्रेणीनां भवतस्तद्यथा २५६, अत्र प्रथमवर्गमूलं षोडश द्वितीयं चत्वारः चतुर्भिः षोडश गुनिता जाताश्चतुःषष्टिः, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येयाः श्रेण्यो मन्तव्यां, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या।
'अहव ण'मित्यादि, नमिति वाक्यालङ्कारे, अथवा-अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः, 'अहव अत्ति क्वचित्पाठः, सचैवं व्याख्यायते-अथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयंशब्दोऽथवाशब्दस्यार्थे वर्तते, तदेव प्रकारान्तरमाह-'अंगुलवीयवग्गमूलघने त्यादि, अङ्गलप्रमाणप्रतरक्षेत्रवतिश्रेणिराशेर्यद्द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन:-चतुःषष्टिलक्षणस्तत्प्रमाणाःतत्सङ्ख्याः श्रेण्योऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते अर्थस्तु स एवेति, तदेवं कल्पनया चतु:षष्टिरूपाणां सद्भावतोऽसङ्घयेयानां श्रेणीनां यप्रदेशराशिरेतावत्सङ्ख्यानि नारकाणबद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्तएव, एवं चसति पूर्वनारकाः सामान्येनैवा
सङ्खयेया उक्ताः, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्खयेयकं प्रतिनियतस्वरूपं सिद्धं भवति, . एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्यां, मुक्तवैक्रि
30/27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500