Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३०
___ अनुयोगद्वार-चूलिकासूत्रं गहणं। से किं तं पडुप्पन्नकालगहणं?, २ साहुंगोअरग्गगयं भिक्खं अलभमानं पासित्ता तेनं साहिज्जइ जहा-दुब्भिक्खे वट्टइ, से तं पड़प्पन्नकालगहणं। से किंतं अनागयकालगहणं?,२ मू.(३०८) धूमायति दिसाओ सं (?) विअमेइणी अपडिबद्धा।
वाया नेरइया खलु कुवुट्ठीमेवं निवेयंति ।। वृ. दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्य, तद्गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत्, पूर्वदृष्टश्चार्थः, कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्याद्, अतस्तद्भेदादिदं द्विविधं, सामान्यतो दृष्टार्थयोगात्सामान्यदृष्टं, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टं, तत्र सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि, इदमुक्तं भवति-नालिकेरद्वीपादायातः कशित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्टवा अनुमानं करोति यथा अयमेक: परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद्, अन्याकारत्वे पुरुषत्वहानिपसङ्गाद्, गवादिवत्, बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित्पुरुषः एतदाकारनेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिपङ्गाद्, अश्वादिवदिति, एवं कार्पापणादिष्वपि वाच्यं, विशेषतो दृष्टमाह_ 'से जहानामए' इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित्पुरुषविशेषं दृष्टवा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति-यः पूर्वं मयोपलब्धः स एवाय पुरुषः, तथैव प्रत्यभिज्ञायमानत्वाद, उभयाभिमतपुरुषवदिति, एतत्तदाविशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदर्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह_ 'तस्स समासओ तिविहं गहण'मित्यादि, तस्येति-सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालविषयं ग्रहणं-ग्राहस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणं, प्रत्युत्पन्नो-वर्तमानः कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो-भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणं, कालत्रयवतिनोऽपि विषयस्यानुमानात्परिच्छेदो भवतीत्यर्थः, तत्र 'उत्तिणाई'ति उद्गतानि तृणानि येषु वनेषु तानि तथा अयमत्र प्रयोगः-सुवृष्टिरिहासीद् उत्तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनाद्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः, साधु च 'गोचराग्रगतं' भिक्षाप्रविष्टं विशेषेण छदितानि-गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्टवा कश्चित्साधयति-सुभिक्षमिह वर्तते, साधूनां तद्धेतकप्रचुरभक्तपानलाभदर्शनात्, पूर्वदृष्टप्रदेशवदिति। ___ 'अब्भस्स निम्मलत्तं' गाहा सुगमा, नवरं स्तनितं-मेघगर्जितं 'वाउब्भामो'त्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः 'वारुणं'ति आर्द्रामूलादिनक्षत्रप्रभवं माहेन्द्ररोहिणीज्येष्ठादिनक्षत्रसम्भवं अन्यतरमुत्पातम्-उल्कापातदिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्टावऽनुमीयते, यथा-सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500