Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 431
________________ ४२८ अनुयोगद्वार-चूलिकासूत्रं नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम्? ॥" इत्यादि, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थगहनातपङ्गात्, अन्यत्र यत्नेनोक्तत्वाच्चेति। आह-प्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तियुक्ता, नैवं पुरुषपिण्डमात्रप्रत्यक्षायामपि मत्पुत्रो न वेति सन्देहाधुक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन। 'से किं तं सेसव' मित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्मास्ति तच्छेषवदनुमान, तच्च पञ्चविधं, तद्यथा-कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा-हयम्-अश्वं हेषितेन अनुमिनुते इत्यध्याहार: हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण-कार्यद्वारेणोत्पन्नं शेषवदनुमामुच्यत, इति भावः, क्वचित् प्रथमतः शङ्खशब्देनेत्यादि दृश्यते, तत्रोक्तानुसरातः, सर्वोदाहरणेषु भावना कार्या। 'से किं तं कारणेण'-मित्यादि, इह कारणेन कार्यमनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनामत् कश्चित् वृष्ट्यनुमानं करोति, यदाह "रोलम्बगवलव्यालतमालमलिनत्विषः। वृष्टिं व्यभिचरन्तीह, नैवंप्रायाः पयोमुचः॥" इति, एवं चन्द्रोदयाञ्जलधेर्वृद्धिरनुमीयते कु मुदविकाशश्च, मित्रोदयाञ्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीबलमनःप्रमोदेश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य नाकारणं, तत्र कार्यकारणभाव एक केषाञ्चिद्विप्रतिपत्ति पश्यस्तमेव तावनियतं दशर्यन्नाहतन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणं, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भाद्, अत्राह___ ननु यदा कश्चिनिपुणः पटभावेन संयुक्तानि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवं, सत्त्वेनोपयोगाभावात्, यदेव हिलब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपुकुरुते तदेव तस्य कारणत्वेनोपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पट: कारणं निर्दिश्यते, न हि ज्वराभावेन भवत आरोगितासुखस्य ज्वर: कारणमिति शक्यते वक्तुं, यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवं, तन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावीभवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावानासौ तेषां कारणम्, एवं वीरणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चित्तं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति। ‘से किं तं गुणेण'-मित्यादि, निकष:-कषणपट्टगता कषितसुवर्णरेखा तेन सुवर्णमनुमीयते, यथा पञ्चदशादिर्ण-कोपेतमिदं सुवर्णं, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत्, एवं शतपत्रि-कादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोलब्धवस्तुवत्, एवं लवणमदिरावस्त्रादयोऽनेक-भेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वादस्पर्शादिगणोपलब्धेः, प्रतिनियतस्वरूपाः साधयितव्याः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500