Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 425
________________ ४२२ अनुयोगद्वार-चूलिकासूत्रं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरिप्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यध्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः, तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ?, नेत्याह 'चउजमलपयस्स हेट्ठ'त्ति चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं-द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदंवर्गषट्कलक्षणं तस्योपरि चतुर्यमलपदस्य-वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्राप्येतान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि, अथवा किमेतैरस्फुटैः प्रकारैः, स्फुटतरमेव प्रकारमाह___ 'अहवण'मित्यस्य शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्गः पञ्चमवर्गेण यदा प्रत्युत्पन्नो-गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः, अथ कोऽयं षष्ठो वर्गः? कश्च पञ्चमवर्ग इति, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैवराशिना यत्र गुण्यते स तावद्वर्गः, चतुर्णा वर्ग: षोडशेति द्वितीयो वर्गः १६, षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६, अस्य राशेवंर्गः पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: ६५५३६, अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते 'चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ। . अउणावनं लक्खा सत्तट्टि चेव य सहस्सा ।। दो य सया छनउया पंचमवग्गो इमो विनिद्दिट्टो'त्ति अङ्कतोऽप्यष दर्श्यते ४२९४९६७२९६, अस्यापि राशेर्गाथात्रयेण वर्गः प्रतिपाद्यते लक्खं कोडाकोडी चउरासीयं भवे सहस्साई। चत्तारि अ सत्तट्ठा हुंति सया कोडीकोडीणं॥ चउयालं लक्खाइं कोडीणं सत्त चेव य सहस्सा। तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा ।।२।। पंचाणं ऊइ लक्खा एगावनं भवे सहस्साई। छस्सोलसोत्तरसया एसो छट्ठो हवइ वग्गो॥ अङ्कतोऽपि दर्श्यते १८४४६७४४०७३७०९५५१६१६, तदयं षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जधन्यपदिनो गर्भजमनुष्या वर्तन्ते, सा चेयम् ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ अयं च राशिः कोटीकोट्यदिप्रकारेण केनाप्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसग्रहार्थं गाथाद्वयम् 'छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिनिन्नि चत्तारि। __ पंचेव तिनि नव पंच सत्त तिनेव तिन्नेव ।। चउ छ हो चउ एक्को पण दो छक्केक्कगो य अटेव। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500