________________
४२२
अनुयोगद्वार-चूलिकासूत्रं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरिप्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यध्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः, तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ?, नेत्याह
'चउजमलपयस्स हेट्ठ'त्ति चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं-द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदंवर्गषट्कलक्षणं तस्योपरि चतुर्यमलपदस्य-वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्राप्येतान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि, अथवा किमेतैरस्फुटैः प्रकारैः, स्फुटतरमेव प्रकारमाह___ 'अहवण'मित्यस्य शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्गः पञ्चमवर्गेण यदा प्रत्युत्पन्नो-गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः, अथ कोऽयं षष्ठो वर्गः? कश्च पञ्चमवर्ग इति, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैवराशिना यत्र गुण्यते स तावद्वर्गः, चतुर्णा वर्ग: षोडशेति द्वितीयो वर्गः १६, षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६, अस्य राशेवंर्गः पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: ६५५३६, अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते
'चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ। .
अउणावनं लक्खा सत्तट्टि चेव य सहस्सा ।। दो य सया छनउया पंचमवग्गो इमो विनिद्दिट्टो'त्ति अङ्कतोऽप्यष दर्श्यते ४२९४९६७२९६, अस्यापि राशेर्गाथात्रयेण वर्गः प्रतिपाद्यते
लक्खं कोडाकोडी चउरासीयं भवे सहस्साई।
चत्तारि अ सत्तट्ठा हुंति सया कोडीकोडीणं॥ चउयालं लक्खाइं कोडीणं सत्त चेव य सहस्सा। तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा ।।२।। पंचाणं ऊइ लक्खा एगावनं भवे सहस्साई।
छस्सोलसोत्तरसया एसो छट्ठो हवइ वग्गो॥ अङ्कतोऽपि दर्श्यते १८४४६७४४०७३७०९५५१६१६, तदयं षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जधन्यपदिनो गर्भजमनुष्या वर्तन्ते, सा चेयम् ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ अयं च राशिः कोटीकोट्यदिप्रकारेण केनाप्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसग्रहार्थं गाथाद्वयम्
'छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिनिन्नि चत्तारि। __ पंचेव तिनि नव पंच सत्त तिनेव तिन्नेव ।। चउ छ हो चउ एक्को पण दो छक्केक्कगो य अटेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org