SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ मूलं - २९९ दो दो नव सत्तेव य अंकट्ठाणा पराहुत्ता ।। तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम्। अमुमेवार्थ प्रकारान्तरेणाह - ' अहव णं छन्नउईच्छेयणगयाई रासि 'त्ति छेदनकं-राशेरद्धकरणं ततः पनवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः, स चायमेवैकोनत्रिंशदडूकस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः, अयं हि पुनः पुनश्छिद्यमानोऽर्द्धक्रियमाणः षन्नवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते, कथं पुनः षन्नवंतिच्छेदनानि भाव्यन्ते ?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि--चतुर्णामर्द्धे द्वौ तयोरप्यर्द्धे एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयं, द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ चतुर्थे षाडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि, तदेवं जघन्यपदमुक्तम्, अथोत्कृष्टपदमभिधित्सुराह ४२३ 'उक्कोसपए असंखेज्ज'त्ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्ख्येयानि कालतोऽड्रख्येयोत्सर्पिणीसमयराशितुल्यानि, क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रेक्षिप्ते तैर्मनुष्यशरीरैरेका नभ:प्रदेशश्रेणिरपहियते कियता कालेनेत्याह- असख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह } Jain Education International ‘अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्न'न्ति श्रेणेरङ्गुल-प्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति, इदमुक्तं भवति श्रेणेर्मध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसपिणीभिः सर्वापि श्रेणिरपहियते यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भसंमूर्च्छजमनुष्याणामेतावतामेव भावादिति तदेवं मनुष्याणां बद्धान्यौदारिकशरीरायुक्तानि, मुक्तानि त्वोधवद्भाव्यानि । अथ वैक्रियाण्याह-‘केवइया वेउव्विअसरीरा' इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु तत्रापि पृच्छासमये कियस्त्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि असङ्ख्येयेन कालेनापहियन्ते, मुक्तान्यो धवद्वाच्यानि । आहारकाणि तु बद्धानि मुक्तानि च यथौधिकानि तथैव, तैजसकार्मणानि तु यथैषा मेवदारिकाणि । मू. (२९९ वर्तते ) वाणमंतराणं ओरालिअसरीरा जहा नेरइआणं, वाणमंतराणं भंते ! केवइया वेडव्विअसरीरा पं० ?, गो० ! दुविहा पन्नत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ जे ते बद्धेल्या ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखिज्जइभागो, तासि णं सेढीणं विक्खंभसूई For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy