Book Title: Agam Suttani Satikam Part 30 Nandi Anuyoddwar
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 403
________________ अनुयोगद्वार - चूलिकासूत्रं ४०० निष्पद्यते, तत्र च ' उवरिल्ले' त्ति उपरितने तन्तौ अच्छिन्ने- अविदारिते' हेट्ठिल्ले' त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत् येन कालेन तेन तुन्नागदारकेन तस्याःपटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समय: ?, किं भवतीति शेष:, अत्र प्रज्ञापक आह-न भवतीति, कस्मात् ?, यस्मात्सङ्ख्येयानां 'पक्ष्मणां' लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्वं तथैव यावत्तस्मादौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घातः तेपामनन्तानां यः समुदय:- संयोगस्तेषां समुदयानां या अन्योऽन्यानुगतिरसौ समितिः तासां समागमेनएकवस्तुनिर्वर्तनाय मीलनेन उपरिनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरित-नैकपक्ष्मच्छेदनकालः समयो न भवति, कस्तर्हि समय इत्याह 'एत्तोऽवि अण' मित्यादि, एतस्माद् उपरितैनकपक्ष्मच्छेदनकाल् सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मन्निति, अत्राह - ननु यद्यन्तैः परमाणुसंङ्घातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते, तर्त्येकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तं'असंखेज्जासु णं भंते ! उस्सप्पिणिअवसप्पिणीसु केवइया समया पन्नत्ता ?, गोयमा !, असंखेज्जा, अनंतासु णं भंते ? उस्सप्पिणिअवसप्पिणीस केव इया समया पन्नत्ता ? अनंता" तदेतत्कथम्, अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेद: संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलतरसङ्घाता एकस्मिन्पक्ष्मणि असङ्ख्या एव भवन्ति तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोध:, इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात् सूत्राणां च सूचामात्रत्वादिति, ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽविनं सुहुमतराए समए' इति सामान्येनैवोक्तवानिति, एकस्मादुपरितनपक्ष्मच्छेदनकालादसङ्ख्याततमोऽंश समय इति स्थितं, युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धश्च नगरादिप्रस्थितानवरतप्रवृतत्ततपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभः प्रदेशान विलवयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिणी अवसर्पिणीभिरेवेष्टदेशं प्राप्नुयादू 'अंगुलसेढीमित्ते उस्स्सप्पिणीउ असंखेज्जा' इत्यादिवचनादिति भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यं, सर्वज्ञवचनाप्रामाण्याद्, उक्तं च - Jain Education International "आगमश्चोपपतिश्च, सम्पूर्णं विद्धि (दृष्टि) लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500