________________
अनुयोगद्वार - चूलिकासूत्रं
४००
निष्पद्यते,
तत्र च ' उवरिल्ले' त्ति उपरितने तन्तौ अच्छिन्ने- अविदारिते' हेट्ठिल्ले' त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत् येन कालेन तेन तुन्नागदारकेन तस्याःपटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समय: ?, किं भवतीति शेष:, अत्र प्रज्ञापक आह-न भवतीति, कस्मात् ?, यस्मात्सङ्ख्येयानां 'पक्ष्मणां' लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्वं तथैव यावत्तस्मादौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घातः तेपामनन्तानां यः समुदय:- संयोगस्तेषां समुदयानां या अन्योऽन्यानुगतिरसौ समितिः तासां समागमेनएकवस्तुनिर्वर्तनाय मीलनेन उपरिनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरित-नैकपक्ष्मच्छेदनकालः समयो न भवति, कस्तर्हि समय इत्याह
'एत्तोऽवि अण' मित्यादि, एतस्माद् उपरितैनकपक्ष्मच्छेदनकाल् सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मन्निति, अत्राह - ननु यद्यन्तैः परमाणुसंङ्घातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते, तर्त्येकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तं'असंखेज्जासु णं भंते ! उस्सप्पिणिअवसप्पिणीसु केवइया समया पन्नत्ता ?, गोयमा !, असंखेज्जा, अनंतासु णं भंते ? उस्सप्पिणिअवसप्पिणीस केव इया समया पन्नत्ता ? अनंता" तदेतत्कथम्, अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेद: संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलतरसङ्घाता एकस्मिन्पक्ष्मणि असङ्ख्या एव भवन्ति तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोध:,
इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात् सूत्राणां च सूचामात्रत्वादिति, ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽविनं सुहुमतराए समए' इति सामान्येनैवोक्तवानिति, एकस्मादुपरितनपक्ष्मच्छेदनकालादसङ्ख्याततमोऽंश समय इति स्थितं, युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धश्च नगरादिप्रस्थितानवरतप्रवृतत्ततपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभः प्रदेशान विलवयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिणी अवसर्पिणीभिरेवेष्टदेशं प्राप्नुयादू 'अंगुलसेढीमित्ते उस्स्सप्पिणीउ असंखेज्जा' इत्यादिवचनादिति भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यं, सर्वज्ञवचनाप्रामाण्याद्, उक्तं च
-
Jain Education International
"आगमश्चोपपतिश्च, सम्पूर्णं विद्धि (दृष्टि) लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥
For Private & Personal Use Only
www.jainelibrary.org