________________
मूलं- २७५
विसंघाइज्जइ, तम्हा से समए न भवइ ।
एत्तोऽवि अ नं सुहुमतराए समए पन्नत्ते समणाउसो !
वृ. अथ कोऽयं समय इति पृष्टे सत्याह-समयस्य प्ररूपणां विस्तरक्त व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपंथमवतरतीति भावः, तदेवाह - 'से जहानाम' इत्यादि, सकश्चित् यथानामको यत्प्रकारनामा देवदत्तादिनामेत्यर्थः, 'तुण्णाहगारए' सूचिक इत्यर्थः, 'स्यात्' भवेत्, यः किमित्याह - तरुणादिवेशेषणाविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा 'सयराहं' झटिति कृत्वा हस्तमात्रमपसारयेत्-पाटयेदिति सण्टङ्कः, अथवा 'स' इति पूर्ववत् ‘यथे'त्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च सकश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुमादिविशेषणः 'स्यात्' कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत्-पाटयेदिति तथैव सम्बन्धः, तत्र तरुण:प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ?, नैवम्,
आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विश्ष्टामर्थप्रतिपादनार्थश्चायमारम्भ:, सोऽदुष्टो - निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणं, 'जुवाणो 'त्ति युवा-यौवनस्थः प्राप्तवया एष इत्येवम् अनति-व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम्, अल्पशब्दोऽग्रहस्तोहस्ताग्रं यस्य स तथा, दृढं पाणिपादं यस्य पार्श्वो पृष्ठ्यन्तरे च ऊरू च परिणते - परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलयमलजुयलपरिघणिभबाहू' तलौतालवृक्षौ तयोर्यमलं- समश्रेणीकं यद् युगलं द्वयं परिघश्च-अर्गला तन्निभौ - तत्सदृशौ दीर्घ सरलपीनत्वादिना बाहू यस्य स तथा आगन्तुकोपकरणजं सामर्थ्य माह'चर्मेष्ष्टकाद्रुघणमुष्टिकसमाहतनिचितगात्रकाय: ' चर्मेष्टकया ग्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि - निबिडीकृतानि गात्राणि - स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो - देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव,' 'औरस्यबलसमन्वागत' आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्तां दर्शयति
३९९
Jain Education International
-
'लङ्घनप्लवनव्यायामसमर्थः ' जवनशब्दः शीघ्रवचन:, छेकः - प्रयोगज्ञः दक्षः - शीघ्रकारी प्राप्तार्थः-अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये, कुशलः- आलोचितकारी मेघावीसकृच्छ्रुतदृष्टकर्मज्ञः निपुण - उपायारम्भकः निपुणशिल्पोपगतः - सूक्ष्मशिल्पसमन्वितः, एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानं, स इत्थम्भूत एकां महतीं पटसाटिकां पट्टाटिकां वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानं, गृहीत्वा 'सयराह' मिति सकृत् झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत्-पाटयेदित्यर्थः, तत्रैवं स्थिते प्रेरक :- शिष्यः प्रज्ञापयतीति प्रज्ञापको - गुरुस्तमेवमवादीत्, किम ? - येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं - पाटितमसौ समयो भवति ?, प्रज्ञापक आहनायमर्थः समर्थः--नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसाटिकां
For Private & Personal Use Only
www.jainelibrary.org